नारायणपुरे अन्तर्राज्यीय-समन्वय-सभायां छत्तीसगढ-महाराष्ट्र-आरक्षकबलाभ्यां संयुक्त-रणनीतिः निर्मिता
नारायणपुरम्, २७ जुलाईमासः (हि.स.)। छत्तीसगढ-महाराष्ट्रयोः सीमावर्तिक्षेत्रेषु नक्सल-गतिविधीनां प्रायः समापनमपि दृष्ट्वा निरन्तरं सञ्चाल्यमानान् अन्वेषण-अभियानान् अधिक-प्रभाविशालिनः कर्तुं नारायणपुरे अन्तर्राज्यीय-समन्वय-सभा आयोजिता। अस्यां सभायां
अंतर्राज्यीय समन्वय बैठक में छत्तीसगढ़-महाराष्ट्र पुलिस ने बनाई संयुक्त रणनीति.jpg


नारायणपुरम्, २७ जुलाईमासः (हि.स.)। छत्तीसगढ-महाराष्ट्रयोः सीमावर्तिक्षेत्रेषु नक्सल-गतिविधीनां प्रायः समापनमपि दृष्ट्वा निरन्तरं सञ्चाल्यमानान् अन्वेषण-अभियानान् अधिक-प्रभाविशालिनः कर्तुं नारायणपुरे अन्तर्राज्यीय-समन्वय-सभा आयोजिता।

अस्यां सभायां उभयराज्ययोः आरक्षक-विभागस्य सुरक्षाबलानां च वरिष्ठ-अधिकारिणः संयुक्त-अभियानानां, गुप्तसूचनानाम् आदान-प्रदानस्य समन्वित-रणनीतेश्च विषये विस्तृतं विचार-विमर्शम् अकुर्वन्। दृश्य-सम्मेलन-माध्यमेन छत्तीसगढस्य नक्सल-विरोधि-अभियानस्य अपर-महानिदेशकः विवेकानन्दः, महाराष्ट्रस्य स्पेशल-ऑप्स-विभागस्य अपर-महानिदेशकः डॉ. छेरिङ्-दोर्जे, गुप्तचर-विभागस्य संयुक्त-निदेशकः तथा नागपुर-परिक्षेत्रस्य विशेष-आरक्षक-महानिरीक्षकः सन्दीप-पाटिलः अपि सभायां सहभागीन: अभवन्।

सोमवासरे आयोजितायां सभायां बस्तर-परिक्षेत्रस्य आरक्षक-महानिरीक्षकः बी.एन. मीणा, गढचिरौली-जनपदस्य आरक्षक-अधीक्षकः एम्. रमेशः, कांकेर-जनपदस्य आरक्षक-अधीक्षकः निखिल-राकेचा, नारायणपुर-जनपदस्य आरक्षक-अधीक्षकः सन्दीप-कुमार-पटेलः, बीजापुर-जनपदस्य आरक्षक-अधीक्षकः उमेश-गुप्तः तथा उभयराज्ययोः अन्ये वरिष्ठ-आरक्षक-अधिकारिणः उपस्थिताः आसन्।

सभायां सीमावर्तिक्षेत्राणां वर्तमान-सुरक्षा-स्थितेः समीक्षा कृता। संयुक्त-नक्सल-विरोधि-अभियानान् अधिक-प्रभावि-शालिनः कर्तुं, गुप्तसूचनानां त्वरितम् आदान-प्रदानं सुनिश्चितुं तथा उभयराज्ययोः समन्वयं सुदृढीकर्तुं सर्वसम्मतिः अभवत्। एतदतिरिक्तं सीमावर्तिक्षेत्रेषु सतत-निरीक्षणं, समन्वित-कार्यवाहीं प्रभावी-रणनीतिं च अवलम्ब्य अन्वेषण-अभियानानां तीव्री-करणस्य विषयेऽपि चर्चा अभवत्।

वरिष्ठ-अधिकारिणः सुरक्षाबलानां मध्ये उत्तम-समन्वयस्य, निर्धारित-सुरक्षा-मानकानां पालनस्य, व्यावसायिक-कार्यशैल्याः तथा उपलब्ध-गुप्तसूचनानाम् आधारेण त्वरित-कार्यवाह्याः सुनिश्चिती-करणस्य विषये विशेषं बलम् अयच्छन्। सभायामिदमपि पुनरुक्तं यत् जनसहयोगेन सुदृढ-गुप्तचर-तन्त्रेण च क्षेत्रे शान्तेः, सुरक्षायाः, विकासस्य च वातावरणं अधिकं सुदृढं भविष्यति। अन्ते सर्वेभ्यः अधिकारिभ्यः निर्धारित-कार्ययोजनायाः प्रभावी-क्रियान्वयनं सुनिश्चित्य अन्तर्राज्यीय-समन्वयं निरन्तरं धारयितुं संयुक्त-प्रयत्नैः च नक्सल-विरोधि-अभियानानि अधिकं तीव्राणि कर्तुं निर्देशाः प्रदत्ताः।

Hindusthan Samachar / Divya Ranjan