मुख्यमंत्री सायोऽद्य जिला पंचायतस्य मुख्य कार्यपालन अधिकारिणाम् अगृह्णात् समीक्षोपवेशनम्
रायपुरम्, 27 जुलाईमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे नवरायपुरस्थिते राज्यग्रामीणविकाससंस्थानपरिसरे जिलापञ्चायतानां मुख्यकार्यपालनाधिकाऱिणां समीक्षा उपवेशनं करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अद्य प्रातः १० वादने एसआ
मुख्यमंत्री विष्णुदेव साय


रायपुरम्, 27 जुलाईमासः (हि.स.)।मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे नवरायपुरस्थिते राज्यग्रामीणविकाससंस्थानपरिसरे जिलापञ्चायतानां मुख्यकार्यपालनाधिकाऱिणां समीक्षा उपवेशनं करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री अद्य प्रातः १० वादने एसआईआरडी परिसरम् आगमिष्यति तथा जिलापञ्चायतानां कार्याणां विविधविकासयोजनानां प्रगतेः च समीक्षा करिष्यति। उपवेशनस्य अनन्तरं मुख्यमन्त्री प्रातः ११ वादने मन्त्रालयाय प्रस्थितो भविष्यति। ततः परं सः अपराह्णे २ वादनपर्यन्तं मन्त्रालये विविधप्रशासनिकोपवेशनेषु सहभागी भविष्यति तथा कार्यालयीयकार्याणि सम्पादयिष्यति।

Hindusthan Samachar / Dheeraj Maithani