काङ्ग्रेसाध्यक्षेन चतुर्षु राज्येषु विचारविभागस्य राज्याध्यक्षानां नियुक्तिः कृता
नवदेहली, २७ जुलाईमासः (हि.स.)। काङ्ग्रेसाध्यक्षेन आन्ध्रप्रदेशे, नागालेण्डे, मणिपुरे तथा पुदुच्चेर्यां विचारविभागस्य राज्याध्यक्षानां नियुक्तिः कृता। अखिलभारतीय-काङ्ग्रेस-समित्या सोमवासरे प्रकाशिते विज्ञप्तिपत्रे उक्तं यत् एताः नियुक्तयः तत्क्षणाद
कांग्रेस के झंडे (फाइल फोटो)।


नवदेहली, २७ जुलाईमासः (हि.स.)। काङ्ग्रेसाध्यक्षेन आन्ध्रप्रदेशे, नागालेण्डे, मणिपुरे तथा पुदुच्चेर्यां विचारविभागस्य राज्याध्यक्षानां नियुक्तिः कृता।

अखिलभारतीय-काङ्ग्रेस-समित्या सोमवासरे प्रकाशिते विज्ञप्तिपत्रे उक्तं यत् एताः नियुक्तयः तत्क्षणादेव प्रभाविन्यः भविष्यन्ति।

एआईसीसी-महासचिवेन के.सी. वेणु-गोपालेन विज्ञप्तौ उक्तं यत् आन्ध्रप्रदेशे थोडेटि-सन्दीप-ईश्वरः, नागालेण्डे एक्स. चोपिका-सुमी, मणिपुरे ओइनाम-रोमन-सिंहः तथा पुदुच्चेर्यां डी. प्रदीश-इरुदयराजः विचारविभागस्य राज्याध्यक्षत्वेन नियुक्ताः सन्ति।

Hindusthan Samachar / Divya Ranjan