राष्ट्रमण्डल-क्रीडा-२०२६ – पाकिस्तानी-मुष्टियोद्धारं पराजित्य जदुमणि-सिंहः क्वार्टरफाइनल-चरणे प्रविष्टः
ग्लास्गोनगरम्, २७ जुलाईमासः (हि.स.)। भारतस्य मुष्टियोद्धा मण्डेङ्गबाम् जदुमणि-सिंहः राष्ट्रमण्डल-क्रीडा-२०२६ मध्ये स्वस्य उत्कृष्ट-प्रदर्शनं निरन्तरं प्रदर्शयन् पुरुषाणां ५५ किलोग्राम-भारवर्गस्य क्वार्टरफाइनल-चरणे प्रवेशं कृतवान्। रविवासरे सम्पन्ना
राष्ट्रमंडल खेल 2026: पाकिस्तान के मुक्केबाज को हराकर जदुमणि सिंह क्वार्टरफाइनल में


ग्लास्गोनगरम्, २७ जुलाईमासः (हि.स.)। भारतस्य मुष्टियोद्धा मण्डेङ्गबाम् जदुमणि-सिंहः राष्ट्रमण्डल-क्रीडा-२०२६ मध्ये स्वस्य उत्कृष्ट-प्रदर्शनं निरन्तरं प्रदर्शयन् पुरुषाणां ५५ किलोग्राम-भारवर्गस्य क्वार्टरफाइनल-चरणे प्रवेशं कृतवान्। रविवासरे सम्पन्नायां प्री-क्वार्टरफाइनल-स्पर्धायां सः पाकिस्तान-देशस्य रहमानसुमामा इत्येनं ५–० इति सर्वसम्मत-निर्णयेन एकपक्षीय-रीत्या पराजितवान्।

जदुमणि-सिंहेन स्पर्धायाः त्रिषु अपि चरणेषु आक्रामकं सन्तुलितं च क्रीडाप्रदर्शनं कृतम्। तस्य सूक्ष्म-प्रहाराः, उत्कृष्टं पादसञ्चालनम्, दृढा च रक्षण-रणनीतिः इत्येतयोः पुरतः पाकिस्तानी-मुष्टियोद्धा प्रभावं स्थापयितुं न अशक्नोत्। पञ्च निर्णायकाः अपि भारतीय-क्रीडकस्य पक्षे निर्णयं दत्त्वा तम् विजेतारं घोषितवन्तः।

आधिकारिक-अङ्कपत्रानुसारं त्रयः निर्णायकाः स्पर्धां ३०–२७ इति, अपरौ द्वौ निर्णायकौ २९–२८ इति जदुमणि-सिंहस्य पक्षे अङ्कितवन्तौ। अनेन सम्पूर्णायां स्पर्धायां भारतीय-मुष्टियोद्धुः स्पष्टा श्रेष्ठता नियन्त्रणं च प्रकटितम्।

अस्मात् पूर्वं प्रथम-चरणे अपि जदुमणि-सिंहेन स्कॉटलैण्डदेशस्य कुलन इत्ययं ५–० इति सर्वसम्मत-निर्णयेन पराजित्य स्वीयस्य अभियानस्य उत्कृष्टम् आरम्भं कृतम् आसीत्। ग्लास्गोनगरे एष: तस्य निरन्तरं द्वितीय: एकपक्षीय: विजयः अस्ति।

अधुना जदुमणि-सिंहः जुलाईमासस्य २८ तमे दिने आयोज्यमाने क्वार्टरफाइनल-स्पर्धायां जाम्बिया-दक्षिण-आफ्रिका-देशयोः मध्ये भविष्यतः प्री-क्वार्टर-फाइनल-विजेतुः सम्मुखी भविष्यति। अस्मिन् स्पर्धायां विजयः तं सेमीफाइनल-चरणं तथा न्यूनातिन्यूनम् एकस्य पदकस्य समीपं नेतुं समर्थः भविष्यति।

Hindusthan Samachar / Divya Ranjan