Enter your Email Address to subscribe to our newsletters

भोपालम्, 27 जुलाईमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहनयादवेन केन्द्रीयरिजर्वपुलिसबलस्य जवानेभ्यः अस्य संगठनस्य स्थापनादिवसस्य हार्दिकाः शुभकामनाः प्रदत्ताः। मुख्यमन्त्रिणा कर्तव्यनिर्वहणाय सर्वस्वं समर्पितवन्तः सीआरपीएफ जवानाः प्रणमिताः।
मुख्यमन्त्री डा. यादवेन सोमवासरे सामाजिकमाध्यमे एक्स इत्यत्र स्वसन्देशे उक्तं यत्, केन्द्रीयरिजर्वपुलिसबलस्य जवानेभ्यः स्थापनादिवसस्य हार्दिकाः बधायाः शुभकामनाश्च। आन्तरिकसुरक्षायै बलस्य प्रभावपूर्णया दक्षतायुक्तया कर्तव्यनिष्ठया देशे विविधतायामपि एकता अक्षुण्णा वर्तते। कर्तव्यनिर्वहणाय सर्वस्वं समर्पितवन्तः जवानाः मया प्रणम्यन्ते।
उल्लेखनीयं यत् केन्द्रीयरिजर्वपुलिसबलस्य स्थापनादिवसः प्रतिवर्षं जुलैमासस्य सप्तविंशतितमे दिने आचर्यते। अयं दिवसः देशस्य आन्तरिकसुरक्षायाः शान्तेः अखण्डतायाश्च रक्षणे बलस्य अदम्यसाहसं बलिदानं सेवाभावं च सम्मानयितुं आचर्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani