Enter your Email Address to subscribe to our newsletters




सारणजनपदम्, २७ जुलाईमासः (हि.स.)। छपरा-नगरनिगमेन अद्य सरस्वती-शिशु-विद्या-मन्दिरे दर्शननगरे ‘फोर-स्ट्रीम-सोर्स-सेग्रिगेशन-ऑफ-वेस्ट’ इति विषये जागरूकता-कार्यक्रमः आयोजितः। अस्य उद्देश्यं विद्यार्थिषु अपशिष्टस्य चतुर्विध-पृथक्करणस्य अभ्यासनिर्माणं तथा पर्यावरणसंरक्षणं प्रति तान् प्रेरयितुम् आसीत्।
कार्यक्रमे सप्तमकक्षायाः विद्यार्थिनां कृते चित्रकला-प्रश्नोत्तरी-प्रतियोगितयोः आयोजनम् अभवत्। प्रतियोगितायाम् उत्कृष्टप्रदर्शनाय गौरी-कुमारी प्रथम-पुरस्कारेण, अनीकेश-प्रकाशः द्वितीय-पुरस्कारेण, सूर्या-पाण्डेयः तृतीय-पुरस्कारेण च सम्मानिताः। नगरायुक्तः रणजीत-कुमारः विजेतृभ्यः स्मृतिचिह्नानि प्रदाय सर्वेभ्यः सहभागिभ्यः सहभागिता-प्रमाणपत्राणि दत्त्वा तेषाम् उत्साहवर्धनम् अकरोत्।
स्वसम्बोधने नगरायुक्तः अवदत् यत् स्वच्छभारत-निर्माणे बालकानां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। यदि प्रत्येकं बालकः स्वगृहे अपशिष्टस्य सम्यक् पृथक्करणं सुनिश्चितं कुर्यात्, तर्हि स्वच्छस्य पर्यावरणानुकूलस्य च समाजस्य निर्माणं सम्भवम्। स्वच्छता-पदाधिकारी संजीव-कुमार-मिश्रः सुमित-कुमारश्च अपशिष्टस्य चतुर्षु वर्गेषु पृथक्करणस्य तान्त्रिकीं सूचनाम् अयच्छताम्।
कार्यक्रमे प्रधानाचार्यः विनोद-कुमारः, उपनगरायुक्तः अरशद-इमामः, सी.एम.-फेलो साकेत-कुमारः, अध्यापकाः छात्राः छात्राश्च उपस्थिताः आसन्। अन्ते सामूहिक-स्वच्छता-शपथेन सह कार्यक्रमस्य समापनम् अभवत्।
Hindusthan Samachar / Divya Ranjan