Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 27 जुलाईमासः (हि.स.)।
सन्तशिरोमणेः गुरुरविदासमहाराजस्य षट्शतपञ्चाशत्तमजयन्त्याः उपलक्ष्ये देहलीभाजपादलेन आगामिजन्मजयन्तीपर्यन्तं सन्तरविदाससमरसतासङ्कल्पाभियानं सञ्चालयिष्यते। अभियानस्य अन्तर्गतं जुलैमासस्य नवविंशतितमे दिने वाराणसीनगरे भविष्यति कलशवन्दनवितरणकार्यक्रमः। तदर्थं एकादशसदस्ययुक्ता टोली सोमवासरे प्रदेशकार्यालयात् प्रेषिता। देहलीभाजपाध्यक्षः हर्षमल्होत्रा ध्वजप्रदर्शनेन दलम् प्रत्यष्ठापयत्।
अस्मिन्नवसरे हर्षमल्होत्रेण उक्तं यत् काश्याः पुण्यभूमौ त्रयोदशसप्तसप्ततितमे वर्षे जातस्य सन्तरविदासस्य सन्देशः अद्यापि तावदेव प्रासङ्गिकः अस्ति। तेन उक्तं यत् सन्तरविदासस्य प्रसिद्धं वचनं मन चंगा तो कठौती में गंगा सामाजिकसमरसतायाः आन्तरिकपवित्रतायाश्च सन्देशं ददाति। तेन उक्तं यत् सन्तरविदासेन बेगमपुरा इति समानतामूलकसमाजस्य कल्पना कृता, यत्र कस्यापि प्रकारस्य भेदभावः न भवेत्।
तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सन्तरविदासस्य विचाराः विरासतश्च राष्ट्रियस्तरे सम्मानं प्राप्तवन्तः। काश्यां गुरुरविदासजन्मस्थल्याः विकासकार्याणि तथा हरियाणाराज्यस्य आदमपुरविमानस्थानकस्य नाम सन्तरविदासस्य नाम्ना करणम् एतस्य सम्मानस्य प्रतीकम् अस्ति। तेन सूचितं यत् जुलैमासस्य एकत्रिंशत्तमे दिने देहल्यां भव्यः कलशवन्दनकार्यक्रमः आयोजयिष्यते।
देहलीभाजपाध्यक्षेन सन्तरविदासजयन्तीसमारोहाणां सञ्चालनार्थम् एका समितिः अपि गठिता। समितेः संयोजकः सांसदः योगेन्द्रचन्दोलिया अस्ति। देहलीशासनस्य मन्त्री रविन्द्रइन्द्राजसिंहः, प्रदेशमहामन्त्री मोहनलालगिहारः, विधायकः राजकुमारभाटिया, अनुसूचितजातिमोर्चाध्यक्षः लाजपतरायः, रूपेशमेहरा तथा लीलासिंहः अस्याः प्रमुखसदस्याः सन्ति। समितिः आगामिजयन्तीपर्यन्तं सन्तरविदाससमरसतासङ्कल्पाभियानस्य सञ्चालनं करिष्यति।
अनुसूचितजातिमोर्चाध्यक्षस्य लाजपतरायस्य अध्यक्षतायाम् आयोजिते कार्यक्रमे प्रदेशसङ्गठनमन्त्री पवनराणा, मन्त्री रविन्द्रइन्द्राजसिंहः, सांसदः योगेन्द्रचन्दोलिया, प्रदेशमहामन्त्री मोहनलालगिहारः, योगितासिंहः, प्रदेशमन्त्री राजगौतमः सहिताः अनेके पदाधिकारी उपस्थिताः आसन्।
प्रदेशमहामन्त्रिणा मोहनलालगिहारेण उक्तं यत् सन्तरविदासस्य षट्शतपञ्चाशत्तमजयन्त्यां समाजेन समरसतायाः श्रमसम्मानस्य सामाजिकसमानतायाश्च सङ्कल्पः करणीयः। तेन उक्तं यत् जातिः न, अपितु कर्मणः श्रेष्ठता एव सन्तरविदासस्य शिक्षाणां मूलसन्देशः अस्ति।
सांसदः योगेन्द्रचन्दोलिया उक्तवान् यत् सन्तरविदासेन सेवा आध्यात्मिकचेतना सामाजिकसमानता च प्रदर्शिताः। तेन विश्वासः व्यक्तीकृतः यत् कलशयात्रायाः माध्यमेन सन्तरविदासस्य सन्देशः गृहे गृहे प्राप्स्यति तथा समाजे समरसताभावना दृढा भविष्यति।
देहलीशासनस्य मन्त्री रविन्द्रइन्द्राजसिंहः उक्तवान् यत् सन्तरविदासस्य षट्शतपञ्चाशत्तमा जयन्ती केवलं धार्मिककार्यक्रमः नास्ति, अपितु सनातनपरम्परायाः सन्तपरम्परायाश्च जनजनपर्यन्तं प्रसारणस्य अवसरः अस्ति। तेन उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशव्यापी सन्तानां तीर्थस्थानानां संरक्षणविकासयोः व्यापककार्याणि कृतानि। तेन सूचितं यत् वाराणसीतः पवित्रमृत्तिका कलशश्च देहलीम् आनीय विभिन्नप्रदेशेषु प्रेषयिष्येते, येन समाजे समरसता सन्तरविदासस्य विचाराणां व्यापकप्रसारश्च भविष्यति।
देहलीभाजपाया वाराणसीं प्रति प्रेषिते एकादशसदस्ययुक्ते दले गोपालकृष्णः, रञ्जीतकश्यपः, राहुलगौतमः, मनोजजाटवः, रेखाअमरनाथः, कमलबागडी, भारतगौतमः, विमलकश्यपः, लोकेश्वरीदेवी, लीलासिंहः तथा तरणकुमारः समाविष्टाः सन्ति।
---------------