सूरतनगरे गोमातुः 'राष्ट्रमाता' इति घोषणायाः याचना तीव्रा, रक्तलिखित-ज्ञापनेन सह गोभक्तानां विशाल-शोभायात्रा
सूरतनगरम्, २७ जुलाईमासः (हि.स.)। गुजरातस्य सूरत-नगरे गोमातरं ''राष्ट्रमाता'' इति घोषयितुं तथा सम्पूर्णे देशे गोवधे पूर्ण-प्रतिबन्धं विधातुं याचनाम् अधिकृत्य गौरक्षकैः विविधैः धार्मिक-सामाजिक-सङ्घटनैश्च विशाल-जनजागरण-शोभायात्रा आयोजिता। एषा शोभाया
गौभक्तों की विशाल रैली


खून से लिखे सूरत के गौभक्तों का ज्ञापन


सूरतनगरम्, २७ जुलाईमासः (हि.स.)। गुजरातस्य सूरत-नगरे गोमातरं 'राष्ट्रमाता' इति घोषयितुं तथा सम्पूर्णे देशे गोवधे पूर्ण-प्रतिबन्धं विधातुं याचनाम् अधिकृत्य गौरक्षकैः विविधैः धार्मिक-सामाजिक-सङ्घटनैश्च विशाल-जनजागरण-शोभायात्रा आयोजिता। एषा शोभायात्रा वनिता-विश्राम-प्रांगणात् प्रारभ्य समाहर्तृ-कार्यालयं यावत् अगच्छत्, यत्र गोभक्ताः एकेन वत्सेन सह आगत्य स्व-रक्तेन लिखितं ज्ञापनं विज्ञापनानि च प्रशासनिक-अधिकारिभ्यः समर्पितवन्तः। अस्य विशिष्टस्य विरोध-प्रदर्शनस्य दर्शनार्थं बहवः जनाः उपस्थिताः आसन्।

शोभायात्राया: समये गौरक्षक-नेतारः सर्वकारं राजनैतिक-दलांश्च निर्वाचन-प्रतिज्ञानां पालनस्य विषये असफलतायाः आरोपम् अकुर्वन्। तेषाम् अभिप्रायः आसीत् यत् निर्वाचन-समये गौरक्षायाः गोमातुः सम्मानस्य च विषये महत्य: प्रतिज्ञाः क्रियन्ते, किन्तु सत्तां प्राप्य एते विषयाः विस्मर्यन्ते। तैः गोमातुः राष्ट्रमाता-रूपेण घोषणां गौरक्षार्थं च अधिक-कठोर-विधानानां निर्माणस्य याचना पुनरपि कृता।

भारत-साधु-समाजस्य अध्यक्षः महामण्डलेश्वरः सीतारामदासः अवदत् यत् यस्य देशस्य संस्कृतिः सुदृढा भवति, स एव देशः सदा प्रगतिं करोति, गोमाता च सनातन-संस्कृतेः प्रमुखः आधारः अस्ति। सः अवदत् यत् सूरततः एकविंशति-लक्ष-हस्ताक्षरयुक्तं ज्ञापनं केन्द्र-सर्वकाराय प्रेष्यते। सः संचेतनाम् अयच्छत् यत् यदि केन्द्र-सर्वकारः एतां याचनां न स्वीकरोति, तर्हि सन्त-समाजः लक्षशः गोभक्ताश्च नवदेहल्याः जन्तर-मन्तर-स्थले विशाल-विरोध-प्रदर्शनं करिष्यन्ति। सः अवदत् यथा छात्र-आन्दोलनानां पुरतः सर्वकारः नतः, तथैव गोमातुः विषयेऽपि निर्णयः कर्तव्यः भविष्यति।

राल्यां बहुसंख्यया महिलाः अपि सहभागीन्य: अभवन्। बापा-सीताराम-महिला-मण्डलस्य अध्यक्षा हीरलबेन: अवदत् यत् देशस्य बहवः नेतारः बाल्ये गोमातुः दुग्धं पीत्वा वर्धिताः, किन्त्वद्य ताः एव गोमातरः कूर्परं प्लास्टिक इति च खादितुं विवश्यन्ते। तया उक्तं यत् यदि नेतृषु किंचिदपि संवेदनशीलता अस्ति, तर्हि गोमातुः राष्ट्रमाता-पदं प्रदातव्यम्। धार्मिक-आस्थां निर्दिशन्ती सा अवदत् यत् गोमातुः शरीरे त्रयस्त्रिंशत्-कोटि-देवतानां वासः मन्यते।

सा इदमपि अवदत् यत् यदि सर्वकारः गोमातरं राष्ट्रमातरं न घोषयति, तर्हि गोभक्ताः भविष्ये मतदान-अधिकारस्य उपयोगस्य विषयेऽपि आन्दोलनात्मक-निर्णयं विचारयिष्यन्ति।

गोभक्तैः स्पष्टतया उक्तं यत् यदि सर्वकारः तेषां याचनासु शीघ्रं निर्णयं न करोति, तर्हि अग्रिमेषु कालेषु देशव्यापी लोकतान्त्रिक-रीत्या अधिक-विस्तृतम् आन्दोलनं सञ्चालयिष्यते। सूरतस्य अतिरिक्तं भरूच-जामनगर-बनासकांठा-प्रमुखेषु गुजरातस्य विविध-जनपदेष्वपि प्रशासनिक-अधिकारिभ्यः ज्ञापनानि समर्प्य गोमातरं राष्ट्रमाता-रूपेण घोषयितुं देशव्यापी गोवधे पूर्ण-प्रतिबन्धं विधातुं च याचना कृता।

/ अंशु गुप्ता