Enter your Email Address to subscribe to our newsletters

— उपमुख्यमन्त्रिणा पदसृजनस्य समयबद्ध-नियुक्तिप्रक्रियायाश्च निर्देशाः प्रदत्ताः
भोपालनगरम्, २७ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्र-शुक्लः सोमवासरे मन्त्रालये महर्षि-पाणिनि-संस्कृत-वैदिक-विश्वविद्यालयस्य श्रीरामानुज-संस्कृत-परिसरस्य लक्ष्मणबाग-रीवा इत्यस्य सुदृढीकरणस्य संस्थागतविकाससम्बद्धानां प्रस्तावानां समीक्षां कृत्वा परिसरे आवश्यकानां शैक्षणिक-प्रशासनिक-गैरशैक्षणिकपदानां सृजनस्य प्रस्तावं शीघ्रं सिद्धीकर्तुं तथा समयबद्धां नियुक्तिप्रक्रियां सुनिश्चितां कर्तुं निर्देशान् अयच्छत्। तेन उक्तं यत् नवीनशैक्षणिकसत्रात् परिसरे प्रस्तावितानां सर्वेषां पाठ्यक्रमाणां नियमितसञ्चालनं सुनिश्चितं क्रियताम्।
उपमुख्यमन्त्री शुक्लः अवदत् यत् विद्यार्थिभ्यः गुणवत्तायुक्तां शिक्षां, अनुसन्धानसुविधाः, शैक्षणिकसुविधाश्च प्रदातुं आवश्यकं मानवसंसाधनं समये उपलब्धं भवितुम् अत्यावश्यकम्। तेन विश्वविद्यालय-अनुदान-आयोगस्य मानकानाम् राष्ट्रिय-शिक्षा-नीति-२०२० इत्यस्य च अनुरूपं सर्वेषाम् आवश्यक-पदानां सृजनं शीघ्रनियुक्ति-प्रक्रियायाश्च कार्यवाहीं कर्तुं निर्देशाः प्रदत्ताः।
उपमुख्यमन्त्री शुक्लः अवदत् यत् श्रीरामानुज-संस्कृत-परिसरः वैदिकाध्ययनस्य, संस्कृतस्य, भारतीय-दर्शनस्य तथा भारतीयज्ञान-परम्परायाः अध्ययन-अध्यापन-अनु-सन्धानानां महत्त्वपूर्णं केन्द्रं भविष्यति। परिसरे वेदः, वेदान्तः, व्याकरणम्, साहित्यं, ज्योतिषम्, योगः, धर्मशास्त्रम्, वास्तुशास्त्रम्, सङ्गीतम्, भारतीयज्ञानपरम्परा च इत्यादीनां विभागान् सुदृढीकृत्य उच्च-गुणवत्तायुक्तं शैक्षणिकवातावरणं विकसितं करिष्यते। अस्मिन् समीक्षासभायाम् उच्चशिक्षा-विभागस्य अपरमुख्यसचिवः अनुपम-राजन् तथा अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan