प्रदेशे अवशिष्टेषु ग्रामेषु चतुर्विंशतिहोरान्तरं कार्यं कृत्वा शीघ्रं नल-जलापूर्तिं सुनिश्चितं कुर्वन्तु - स्वतन्त्रदेवसिंहः
लखनऊनगरम्, २७ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य येषु जापानी-मस्तिष्कशोथ: तथा तीव्र-मस्तिष्कशोथ-सिण्ड्रोम-प्रभावितेषु ग्रामेषु अद्यापि नलद्वारा जलापूर्तिः न प्रारब्धा, तेषु अवशिष्टेषु ग्रामेषु चतुर्विंशतिहोरान्तरं त्रिषु पर्यायेषु कार्यं कृत्वा यथाश
जल जीवन मिशन के कार्यों की समीक्षा करते हुए जलशक्ति मंत्री


लखनऊनगरम्, २७ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य येषु जापानी-मस्तिष्कशोथ: तथा तीव्र-मस्तिष्कशोथ-सिण्ड्रोम-प्रभावितेषु ग्रामेषु अद्यापि नलद्वारा जलापूर्तिः न प्रारब्धा, तेषु अवशिष्टेषु ग्रामेषु चतुर्विंशतिहोरान्तरं त्रिषु पर्यायेषु कार्यं कृत्वा यथाशीघ्रं शुद्ध-पेयजल-व्यवस्थां सुनिश्चितुं जलशक्ति-मन्त्री स्वतन्त्रदेवसिंहः निर्देशान् अयच्छत्। तेन जेई-एइएस-प्रभावितेषु ग्रामेषु स्वच्छ-पेयजलस्य नियमितापूर्तिः सुनिश्चिता भविष्यति।

सोमवासरे राज्य-पेयजल-स्वच्छता-अभियान-कार्यालये जलजीवन-अभियानस्य कार्याणां समीक्षां कुर्वन् जलशक्ति-मन्त्री उक्तवान् यत् सर्वाः परियोजनाः निर्धारित-समयसीमायां उच्च-गुणवत्तया पूर्णाः क्रियन्ताम्। यत्र कुत्रापि कस्यचित् प्रकारस्य प्रमादः दृश्यते, तत्र दोषिषु अधिकारिभिः त्वरितां कार्यवाहीं क्रियताम्। सः अपि अवदत् यत् जलापूर्ति-सम्बद्धाः सूचना: शीघ्रमेव निवारणीयाः, कार्येषु गुणवत्तायाः विशेषं ध्यानं च दातव्यम्। समीक्षासभायां नमामि-गङ्गे तथा ग्रामीण-जलापूर्ति-विभागस्य अपर-मुख्यसचिवः अनुराग-श्रीवास्तवः, जलनिगम-ग्रामीणस्य प्रबन्ध-निर्देशकः, राज्य-पेयजल-स्वच्छता-अभियानस्य कार्यकारी-निर्देशकः अन्ये च वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।

अधिकारिणः नियमितरूपेण ग्रामीण-क्षेत्राणि भ्रमन्तु

जलशक्ति-मन्त्री अधिकारिणः निर्देशितवान् यत् ते नियमितरूपेण ग्रामीण-क्षेत्राणि भ्रमित्वा पेयजल-सम्बद्ध-समस्यानां त्वरित-समाधानं कुर्वन्तु। एकल-ग्राम-योजनानां सर्वाणि अवशिष्ट-कार्याणि निर्धारित-समयसीमायां पूर्णानि क्रियन्ताम्। पाइप-रेखास्थापनात् प्रभावितानां मार्गाणां त्वरित-मरम्मतस्य अपि निर्देशः दत्तः। सः उक्तवान् यत् यदि मार्ग-पुनर्स्थापन-कार्येषु काचित् सूचना आगच्छति तर्हि दोषिणः कदापि न क्षम्यन्ते। जनपद-अधिकारिणं प्रति संचेतनां दत्त्वा सः अवदत् यत् कार्येषु प्रमादः कदापि न सह्यः। एषा अन्तिमा संचेतना अस्ति; अनन्तरं सम्बन्धित-अधिकारिणः मुख्यालयेन सह सम्बद्धाः क्रियन्ते।

समीक्षासभायां जलशक्ति-मन्त्री पुनः निर्दिष्टवान् यत् अधिकारिणः ग्रामान् गत्वा जलजीवन-अभियानस्य प्रभावस्य मूल्याङ्कनं कुर्वन्तु। विशेषतः जलजन्य-रोगेषु जातस्य ह्रासस्य तथा ग्रामीण-जनजीवने अभवतां सकारात्मक-परिवर्तनानां विषये सूचनां संगृह्णन्तु। जनान् स्वच्छ-सुरक्षित-पेयजलस्य महत्त्वे जागरूकान् अपि कुर्वन्तु।

जल-अर्पण-कार्यक्रमेषु शीघ्रताम् आनयन्तु

जलशक्ति-मन्त्री अवदत् यत् जलजीवन-अभियानस्य अधिकांश-परियोजनाः निर्धारित-समयात् पूर्वमेव सम्पन्नाः अभवन्। येषु ग्रामेषु नलद्वारा पेयजलापूर्तिः सम्पन्ना, तेषु जल-अर्पण-कार्यक्रमाः आयोजनीयाः। जनाः जल-अर्पण-कार्यक्रमस्य महत्त्वं ज्ञात्वा अधिकाधिकान् कार्यक्रमान् आयोजयन्तु। प्रत्येकस्मिन् जनपदे नियमितरूपेण जल-चौपाल आयोजनस्य, जनप्रतिनिधिभिः सह संवादस्य तथा तेषां कृते जलजीवन-मिशनस्य प्रगतिवृत्तं पोर्टलद्वारा ‘जल-सारथि’ अनुप्रयोगद्वारा च उपलब्धं कर्तुम् अपि निर्देशाः दत्ताः।

पुरातन-परियोजनाः द्विमासाभ्यन्तरे पूर्णाः क्रियन्ताम्

समीक्षासभायां जलशक्ति-मन्त्री जलनिगम-ग्रामीणस्य पुरातन-परियोजनासु विलम्बं प्रति असन्तोषं प्रकटितवान्। अधिकारिणः ताडयन् सः निर्देशितवान् यत् ताः सर्वाः पुरातन-परियोजनाः द्विमासाभ्यन्तरे अनिवार्यरूपेण पूर्णाः क्रियन्ताम्।

Hindusthan Samachar / Divya Ranjan