Enter your Email Address to subscribe to our newsletters


अररिया 27 जुलाईमासः(हि.स.)।
डिजिटलप्रेसक्लब अररियायाः स्थापनादिवसस्य कारगिलविजयदिवसस्य च अवसरे रविवासरे सायंकाले आयोजिते वीरशहीदस्मृतिसांस्कृतिककार्यक्रमे रात्रेः पर्यन्तं गीतसंगीतस्य कार्यक्रमः निरन्तरम् अभवत्।
विद्यालयीयबालकैः प्रस्तुतैः देशभक्तिप्रेरितकार्यक्रमैः सह हास्यकलाकारः राजसोनी, गायकः अमरआनन्दः, गायिका प्रियाराजः, गजलगायकः सुजीतझा, उत्तरप्रदेशात् आगता विभाशुक्ला, अलाउद्दीनखानश्च स्वस्वोत्कृष्टप्रस्तुतिभिः जनसमूहम् एकसूत्रे आबबन्धुः।
फारबिसगञ्जस्थिते द्वारकापैलेसपरिसरे आयोजितस्य कार्यक्रमस्य आरम्भः दीपप्रज्वलनेन अभवत्। अस्मिन् अवसरे कारगिलयुद्धस्य शहीदपरिवारजनाः विद्यालयीयबालकाः च संयुक्तरूपेण दीपप्रज्वलनं कृत्वा कार्यक्रमस्य शुभारम्भम् अकुर्वन्।
विविधविद्यालयीयबालकैः राष्ट्रभक्तिप्रेरितगीतसंगीतैकाङ्क्यादीनां प्रस्तुत्यानन्तरं गजलगायकः सुजीतझा चिट्ठी आई है इति गजलप्रस्तुत्या स्वकार्यक्रमस्य आरम्भम् अकरोत्। ततः तेन प्रस्तुताभिः गजलमालाभिः तथा मुम्बईनगरात् आगतेन हास्यकलाकारेण राजसोनिना स्वस्य रोमियोसह हास्यव्यङ्ग्यप्रस्तुत्या जनानां मुखेषु प्रसन्नता समुत्पादिता।
गायिका प्रियाराजः लग जा गले कि फिर यह हसीन रात हो न हो इति गीतप्रस्तुत्या स्वकार्यक्रमस्य आरम्भम् अकरोत्। तया देश रंगीला रंगीला इति राष्ट्रभक्तिगीतं गायित्वा सर्वान् आनन्देन नृत्यितुम् प्रेरितवती। गायकस्य अमरआनन्दस्य सह द्वन्द्वगीतं कौन दिशा में लेके चला रे बटोहिया इति प्रस्तुत्यानन्तरं अमरआनन्देन अनेकानि मधुरगीतानि प्रस्तुत्य सभायां विशेषम् आनन्दमयम् वातावरणम् निर्मितम्। हास्यकलाकारः राजसोनी नीटपरीक्षायाः प्रश्नपत्रप्रकाशनप्रकरणात् आरभ्य जन्तरमन्तरे सञ्चालितान्दोलनम् शिक्षामन्त्रिणः त्यागपत्रविषयं च व्यङ्ग्यात्मकशैल्या प्रस्तुत्य जनान् सम्यक् अहासयत्।
डिजिटलप्रेसक्लबस्य अध्यक्षः शुभमकुमारः, कार्यक्रमप्रभारी त्रिभुवनठाकुरः, सचिवः जगदीशझा गुड्डू च डिजिटलप्रेसक्लबस्य स्थापना उद्देश्यम् च विवृतवन्तः।
कार्यक्रमस्य सफलाय आयोजनाय क्लबस्य सदस्याः नवलराही, मुबारकराजः, ओमप्रकाशसिंहः, हरेन्द्रकुमारः, मणिभूषणठाकुरः, रविकुमारः, अजीतझा, मृत्युञ्जयशाण्डिल्यः, मुकेशकुमारः, खत्ताबअंसारी, रजतरञ्जनः तथा अन्ये सर्वे सदस्याः उल्लेखनीयं योगदानम् अददुः।
अस्मिन् अवसरे डिजिटलप्रेसक्लब इत्यस्य पक्षतः विविधक्षेत्रेषु उल्लेखनीयं योगदानं कृतवन्तः जनाः, कार्यक्रमस्य प्रायोजकसंस्थानां प्रतिनिधयः तथा वरिष्ठपत्रकाराः सम्मानिताः।
Hindusthan Samachar / Dheeraj Maithani