ओडिशाप्रदेशस्य पूर्वमन्त्रिण: सुशान्तसिंहस्य त्रिपञ्चाशद्वर्षीये वयसि निधनम्
भुवनेश्वरम्, २८ जुलाईमासः (हि.स.)। बीजू-जनतादलस्य वरिष्ठनेता ओडिशाप्रदेशस्य पूर्वमन्त्री च सुशान्तसिंहः सोमवासरे प्रातःकाले भुवनेश्वरस्थिते अपोलो-चिकित्सालये चिकित्सोपचारस्य समये दिवङ्गतः। तस्य वयः त्रिपञ्चाशद्वर्षाणि आसीत्। तस्य परिवारसम्बद्धस्रो
सुशांत सिंह (फाइल फोटो )


भुवनेश्वरम्, २८ जुलाईमासः (हि.स.)। बीजू-जनतादलस्य वरिष्ठनेता ओडिशाप्रदेशस्य पूर्वमन्त्री च सुशान्तसिंहः सोमवासरे प्रातःकाले भुवनेश्वरस्थिते अपोलो-चिकित्सालये चिकित्सोपचारस्य समये दिवङ्गतः। तस्य वयः त्रिपञ्चाशद्वर्षाणि आसीत्।

तस्य परिवारसम्बद्धस्रोतसां अनुसारं सुशान्तसिंहः दीर्घकालात् गम्भीररोगेण पीडितः आसीत्। सोमवासरे प्रातःकाले सहसा तस्य स्वास्थ्यं अत्यन्तं विषमम् अभवत्। चिकित्सकानां सर्वतोभावेन कृतप्रयत्नैरपि तं रक्षितुं न शक्यताम्।

उल्लेखनीयं यत् सुशान्तसिंहः वर्षेषु २००९, २०१४ तथा २०१९ इति त्रिषु निर्वाचनेषु बीजू-जनतादलस्य प्रत्याशिरूपेण भटली-विधानसभाक्षेत्रात् निरन्तरं त्रिवारं विधायकः निर्वाचितः आसीत्। स्वस्य राजनैतिकजीवने सः ओडिशा-सर्वकारे श्रममन्त्री ग्राम्यविकासमन्त्री च भूत्वा महत्त्वपूर्णदायित्वानि निर्वाहितवान्।

भटली-विधानसभाक्षेत्रस्य त्रिवारं विधायकः सुशान्तसिंहः जनसेवां प्रति स्वस्य दृढप्रतिबद्धतायै क्षेत्रस्य विकासार्थं कृतकार्येभ्यश्च व्यापकं सम्मानम् अलभत। सामान्यजनानां जीवनस्तरस्य उन्नयनाय तेन अनेकाः जनकल्याणकारी-योजनाः प्रवर्तिताः।

तस्य निधनात् राज्यस्य राजनैतिकक्षेत्रे शोकतरंग: प्रसृत:। बीजू-जनतादलं सहित्य विभिन्नराजनैतिकदलानां नेतारः गहनं शोकं व्यक्तवन्तः, दिवङ्गतात्मनः शान्त्यर्थं प्रार्थनां कृतवन्तः तथा शोकसन्तप्त-परिजनान् प्रति स्वसंवेदनाः प्रकटितवन्तः।

Hindusthan Samachar / Divya Ranjan