Enter your Email Address to subscribe to our newsletters


— २९ जुलाई-दिने गोरक्षपीठस्य परम्परानुसारं गुरुपूर्णिमा-महोत्सवस्य आयोजनं भविष्यति
गोरखपुरनगरम्, २७ जुलाईमासः (हि.स.)। सनातन-चिन्तनदर्शने संस्कृतौ च गुरु-शिष्यसम्बन्धस्य महत्त्वं प्रतिष्ठापयन्ती गुरुपूर्णिमा गोरक्षपीठस्य कृते विशेषमहत्त्वं वहति। अस्मिन् पावने पर्वणि गोरक्षपीठाधीश्वरः शिवावतारं नाथ-सम्प्रदायस्य आदिगुरुं महायोगि-गोरक्षनाथं तथा पीठस्य पूर्वाचार्यगुरून् विधिपूर्वकं पूजयित्वा स्तौति, ततः परं स्वशिष्येभ्यः गोरक्षपीठस्य श्रद्धालुभ्यश्च स्नेहपूर्णम् आशीर्वादं वितरति। एतां परम्पराम् अनुवर्तयन् वर्तमानः गोरक्ष-पीठाधीश्वरः उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः २९ जुलाई-दिने गुरुपूर्णिमायां शिष्यस्य गुरोश्च उभयरूपेण दृश्यते।
गुरुपूर्णिमा-पर्वणः नाथसम्प्रदायस्य च सम्बन्धः अत्यन्तम् अविच्छिन्नः गम्भीरश्च अस्ति। अस्य प्रमाणं गुरुपूर्णिमायां गोरक्षनाथमन्दिरे सम्पन्नेषु भव्येषु धार्मिकानुष्ठानेषु सुस्पष्टं दृश्यते। महायोगी-गोरक्षनाथात् आरभ्य वर्तमान-गोरक्षपीठाधीश्वर-योगी-आदित्यनाथ-पर्यन्तं सर्वैः नाथयोगिभिः गुरु-परम्परायाः गौरवं श्रद्धया समर्पणेन च संरक्षितम्। मुख्यमन्त्रीपदस्य अत्यधिकव्यस्ततायामपि योगी-आदित्यनाथः प्रतिवर्षं गुरुपूर्णिमायां स्वगुरोः आशीर्वादग्रहणार्थं शिष्याणाम् आशीर्वादप्रदानार्थं च गोरक्षनाथमन्दिरम् आगच्छति। अस्मिन् वर्षेऽपि सः बुधवासरे गुरुपूर्णिमा-पूजायां सहभागी भविष्यति।
नाथसम्प्रदायस्य प्रारम्भादेव गुरु-शिष्यपरम्परा तस्य अविभाज्याङ्गम् अस्ति। नाथपरम्परायां गुरोः ईश्वरस्य च भेदः न स्वीकृतः; गुरुरेव ईश्वरः, ईश्वर एव गुरुः इति तत्त्वं मान्यते। अत एव गोरक्षनाथमन्दिरे गुरुपूर्णिमा-महोत्सवस्य विशेषं महत्त्वम् अस्ति। अस्मिन् दिने गोरक्षपीठाधीश्वरः योगी-आदित्यनाथः महायोगि-गोरक्षनाथस्य विशेषपूजनं करिष्यति, नाथसम्प्रदायस्य गुरुजनान् प्रति श्रद्धां निवेदयिष्यति, शिवावतार-गुरु-गोरक्षनाथाय परम्परानुसारं रोटिका अपि समर्पयिष्यति। अनन्तरं स्वशिष्येभ्यः गोरक्षपीठस्य अनुयायिभ्यश्च आशीर्वादं प्रदास्यति। एतस्मिन्नेव अवसरे २३ जुलाई-मासात् आरभ्य प्रवर्तमानायाः श्रीराम-कथायाः पूर्णाहुतिरपि भविष्यति।
बुधवासरे प्रातःकालादेव गोरक्षनाथमन्दिरे गुरु-पूजनस्य कार्यक्रमः प्रारभ्स्यते। गोरक्षपीठाधीश्वरः प्रथमं गुरु-गोरक्षनाथस्य विधिवत् पूजनं करिष्यति। ततः नाथ-सम्प्रदायस्य योगिनां समाधिस्थलेषु देवालयेषु च विशेषपूजनं भविष्यति। पूजनस्य समापनं सामूहिक-आरत्याः अनन्तरं भविष्यति। ततः गोरक्षपीठाधीश्वरः स्वशिष्याणां मध्ये आगत्य तेषां तिलकं स्वीकृत्य आशीर्वादं दास्यति। आशीर्वचनानन्तरं सहभोजनस्य आयोजनम् अपि भविष्यति।
गोरक्षनाथमन्दिरे गुरुपूर्णिमा-महोत्सवस्य कार्यक्रमाः
प्रातः ५:००–६:०० — महायोगी-गोरक्षनाथाय रोटिका-समर्पणम्, पूजनम्, मन्दिरपरिसरस्थित-देवविग्रहाणां समाधिस्थलानां च विशेषपूजनम्।
प्रातः ६:३०–७:०० — सामूहिक-आरार्तिकी।प्रातः ९:००–११:३० — सप्तदिवसीय-श्रीरामकथायाः पूर्णाहुतिः।पूर्वाह्ण ११:३०–१२:३० — भजनम् आशीर्वचनं च।अपराह्ण १२:३० आरभ्य — सहभोजनम्।
गोरक्षपीठस्य गुरुपूर्णिमायाश्च अविच्छिन्नः सम्बन्धः
गोरक्षपीठे धर्माध्यात्मयोः मङ्गलध्वनिः सर्वदा प्रतिध्वनति, किन्तु गुरुपूर्णिमा विशेषमहत्त्ववती। नाथसम्प्रदायः गुरुप्रधानः मार्गः अस्ति। अतः गोरक्षपीठस्य गुरुपूर्णिमायाश्च सम्बन्धः अविच्छिन्नः। गुरु-शिष्यपरम्परैव अस्य पीठस्य मूलाधारः अस्ति। गुरुपरम्परयैव नाथ-सम्प्रदायस्य विस्तारः अभवत्। एतस्मात् कारणात् गोरक्षपीठं गुरु-परम्परायाः प्रतीकरूपेण विश्वव्यापि प्रतिष्ठितम् अस्ति। शिवावतारः भगवान् गोरक्षनाथः योगं लोककल्याणस्य माध्यमम् अकरोत्, तस्य अनुयायिनः नाथयोगिनः लोकहित-कार्याणि निरन्तरम् अग्रे नीतवन्तः।
गुरोः लोककल्याणपरम्परां गोरक्ष-पीठाधीश्वराः विस्तारितवन्तः
सनातनसंस्कृतौ गुरुः गोविन्दादपि श्रेष्ठः मन्यते। गुरोः परमम् उद्देश्यं लोक-कल्याणमेव भवति, तदेव सः स्वशिष्येभ्यः शिक्षयति। नाथसम्प्रदाये वंशपरम्परया गोरक्षपीठाधीश्वराः स्वगुरुभ्यः प्राप्तां लोककल्याणपरम्परां विस्तारित-वन्तः। वर्तमान-गोरक्षपीठाधीश्वरः योगी-आदित्यनाथः अपि तस्याः परम्परायाः निरन्तरं विस्तारं करोति।
गोरक्षनाथमन्दिरस्य वर्तमानस्वरूपस्य शिल्पी ब्रह्मलीन-महन्त-दिग्विजयनाथ-महाराजेन १९३२ तमे वर्षे लोककल्याणाय महाराणा-प्रताप-शिक्षा-परिषदः स्थापना कृता। तेन गोरखपुर-विश्वविद्यालयस्य स्थापनार्थं स्वीये द्वे महाविद्यालये दाने समर्पिते। तस्य काले मन्दिरपरिसरे आयुर्वेद-चिकित्साकेन्द्रमपि स्थापितम्। एतान् प्रकल्पान् तस्य शिष्यः ब्रह्मलीन-महन्त-अवेद्यनाथ-महाराजः विस्तारितवान् तथा शिक्षा-चिकित्सा-योग-सेवादिक्षेत्रेषु नूतनं आयामं दत्तवान्। तस्य शिष्यः वर्तमान-गोरक्षपीठाधीश्वरः योगी-आदित्यनाथः स्वदादागुरुणा रोपितं स्वगुरुणा संवर्धितं च लोककल्याणस्य बीजं विशाल-वटवृक्षवत् विकसितवान्। अद्य शिक्षाप्रकल्पः विश्वविद्यालयपर्यन्तं विस्तृतः, गुरु-श्री-गोरक्षनाथ-चिकित्सालयस्य कीर्तिः समग्रे पूर्वाञ्चले प्रसृता, योगस्य प्रसारोऽपि निरन्तरं वर्धते। मुख्यमन्त्रिरूपेणापि योगी-आदित्यनाथस्य कार्येषु एषा गुरु-परम्परायाः लोक-कल्याण-भावना स्पष्टतया दृश्यते।
Hindusthan Samachar / Divya Ranjan