Enter your Email Address to subscribe to our newsletters

नवदेहली, २७ जुलाईमासः (हि.स.)। कांग्रेस-पक्षस्य अध्यक्षः मल्लिकार्जुन-खरगे नीट-प्रश्नपत्र-प्रस्रवण-प्रकरणम् अधिकृत्य केन्द्र-सर्वकारस्य विरुद्धं गम्भीरान् आरोपान् कृतवान्। सः अवदत् यत् अस्मिन् विषये विरोध-प्रदर्शनं कुर्वन्तः युवानः भेष्यन्ते तथा पश्चिमबङ्गे बिहारे च अनेके युवानः बलात् अभिरक्षायां गृहीताः सन्ति। तेन आरोपः कृतः यत् अधुना प्रदर्शनेषु सहभागिनां यूनां सामाजिक-माध्यम-लेखानामपि परीक्षा क्रियते, एतच्च भीतस्य सर्वकारस्य लक्षणम् अस्ति।
कांग्रेसाध्यक्षः सोमवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ प्रकाशिते स्वकीय-वक्तव्ये अवदत् यत् देशस्य युवजनः निरन्तरं सर्वकारात् उत्तरं याचते, किन्तु अद्यावधि तेषां प्रश्नानां सन्तोषजनकम् उत्तरं न प्राप्तम्। सः उक्तवान् यत् शिक्षा-व्यवस्थायां पारदर्शीतायाः परीक्षा-प्रणाल्याः विश्वसनीयतायाश्च विषये छात्रेषु अभ्यर्थिषु च गम्भीरा चिन्ता वर्तते।
खरगे उक्तवान् यत् सर्वकारेण एतद् वक्तव्यं दातव्यं यत् अद्यतः ७६६ दिनपूर्वं शिक्षा-क्षेत्रे सुधारार्थं प्रश्नपत्र-प्रस्रवण-निवारणार्थं च गठितायाः डॉ. राधाकृष्णन-समितेः अनुशंसानां का गतिरभवत्। तेन एतदपि पृष्टं यत् अद्यतः ८९५ दिनपूर्वं प्रश्नपत्र-प्रस्रवण-निवारणार्थं विधिः पारितः सन्नपि देशव्यापी पुनः पुनः प्रश्नपत्र-प्रस्रवण-घटनाः कथं जाताः।
सः राष्ट्रीय-परीक्षा-अभिकरणस्य कार्यप्रणाल्यामपि प्रश्नान् उत्थापयन् उक्तवान् यत् ६४७ दिनपर्यन्तं संस्थायै पूर्णकालिकः महानिदेशकः कुतः न नियुक्तः। तस्य मते एतेन परीक्षा-प्रणाल्याः सञ्चालने उत्तरदायित्वे च प्रश्नाः उत्पद्यन्ते।
कांग्रेसाध्यक्षः अवदत् यत् नीट-प्रश्नपत्र-प्रस्रवण-प्रकरणेन लक्षशः छात्राणां तेषाम् अभिभावकानां च विश्वासः प्रभावितः। अतः सर्वकारेण केवलं प्रदर्शनकर्तृषु युवसु कार्यवाही न कर्तव्या, अपितु परीक्षा-प्रणाल्याः सुधारः दोषिणां विरुद्धं कठोर-कार्यवाही च कर्तव्या।
खरगे केन्द्रीय-गृहमन्त्रिणः अमित-शाह-महोदयात् एतेषां सर्वेषां विषयाणां विषये सार्वजनिकरूपेण स्वपक्षं प्रस्तुतुं याचितवान्। तथैव सः प्रधानमन्त्रिणः छात्रेभ्यः देशस्य युवभ्यश्च क्षमायाचनां कर्तुम् अपि प्रार्थितवान् तथा सर्वकारेण परीक्षा-प्रणाल्याः निष्पक्षतां पारदर्शीतां च सुनिश्चितुं दृढ-पदानि स्वीकर्तव्यानि इति उक्तवान्।
Hindusthan Samachar / Divya Ranjan