लोकसभायाम् अद्य प्रस्तोष्यति सार्वजनिक परीक्षाः संशोधनविधेयकम्
नव दिल्ली, 27 जुलाईमासः (हि.स.)।सार्वजनिकपरीक्षासु नकलं प्रश्नपत्रप्रस्रवणं च निवारयितुं कठोरव्यवस्थानिमित्तं भारतसर्वकारः सोमवासरे लोकसभायां सार्वजनिकपरीक्षाः (अनुचितसाधननिवारणम्) संशोधनविधेयकं, २०२६, अर्थात् प्रश्नपत्रप्रस्रवणविरोधिविधेयकं, प्रस्
संसदीय कार्यमंत्री किरेन रिजीजू


नव दिल्ली, 27 जुलाईमासः (हि.स.)।सार्वजनिकपरीक्षासु नकलं प्रश्नपत्रप्रस्रवणं च निवारयितुं कठोरव्यवस्थानिमित्तं भारतसर्वकारः सोमवासरे लोकसभायां सार्वजनिकपरीक्षाः (अनुचितसाधननिवारणम्) संशोधनविधेयकं, २०२६, अर्थात् प्रश्नपत्रप्रस्रवणविरोधिविधेयकं, प्रस्तुतं करिष्यति। अस्मिन् विधेयके परीक्षासु धूर्ताचारस्य प्रश्नपत्रप्रस्रवणस्य च घटनासु कठोराः वैधानिकाः प्रावधानाः कृताः सन्ति।

विधेयकस्य प्रस्तुतिपूर्वं केन्द्रीयसंसदीयकार्यमन्त्री किरेन रिजिजू एतद्दिनं राष्ट्रस्य कृते महत्त्वपूर्णम् इति उक्तवान्। सः माध्यमप्रतिनिधिभ्यः अवदत् यत् देशे अद्यावधि जातानां प्रश्नपत्रप्रस्रवणघटनानां तथा समीपकालीनछात्रान्दोलनस्य अनन्तरं प्रधानमन्त्री नरेन्द्रमोदी अनेकानि महत्त्वपूर्णानि पदानि गृहीतवान् तथा महत्त्वपूर्णाः घोषणाः अपि कृतवान्। अधुना तस्यैव दिशि एकः सुदृढः विधिः संसदः पुरतः प्रस्तूयते।

रिजिजू सर्वान् राजनैतिकदलान् प्रार्थितवान् यत् ते अस्मिन् महत्त्वपूर्णे विधेयके सदसि चर्चायां सहभागित्वं कुर्वन्तु। तेन उक्तं यत् परीक्षाप्रश्नपत्रप्रस्रवणस्य विरुद्धं एतादृशः कठोरः विधिः निर्मीयते, अतः कोलाहलस्य स्थाने सर्वैः दलैः रचनात्मकचर्चा कर्तव्या।

तेन उक्तं यत् यदि विपक्षः चर्चायां सहभागित्वं कर्तुं विहाय केवलं कोलाहलं करिष्यति, तर्हि तेन देशस्य जनानां मध्ये कीदृशः सन्देशः गमिष्यति। अपरतः विपक्षः छात्रेषु पुलिसकार्रवाईं परीक्षाप्रणाल्यां कथितानियमिततां च विषयीकृत्य सर्वकारं परिवेष्टयितुं सज्जः अस्ति। संसदि कोलाहलस्य सम्भावना अपि वर्तते।

---------------

Hindusthan Samachar / Dheeraj Maithani