Enter your Email Address to subscribe to our newsletters

— विपक्षस्य कोलाहलस्य मध्ये उभयोः सदनयोः कार्यवाही द्विवादनपर्यन्तं स्थगिता
नवदेहली, २७ जुलाईमास: (हि.स.)। विपक्षिदलानां सांसदैः कृतस्य कोलाहलस्य घोषणानां च मध्ये केन्द्रसर्वकारेण सोमवासरे लोकसभायां सार्वजनिकपरीक्षा (अनुचितसाधनानाम् अवरोध:) संशोधनविधेयक-२०२६ प्रस्तुतम्। केन्द्रीयमन्त्रिणा डॉ. जितेन्द्र-सिंहेन सदसि तत् विधेयकं प्रस्तुतम्। विपक्षस्य निरन्तरविरोधात् कोलाहलाच्च लोकसभाध्यक्षः ओम् बिरला सदनस्य कार्यवाहीं मध्याह्ने द्विवादन-पर्यन्तं स्थगितवान्। राज्यसभायाः कार्यवाही अपि तावत्कालपर्यन्तं स्थगिता अभवत्।
प्रातः एकादशवादने उभयोः सदनयोः कार्यवाही आरब्धमात्रे विपक्षिसांसदैः विविधविषयानधिकृत्य घोषणाः आरब्धाः। निरन्तरकोलाहलस्य कारणात् प्रथमं लोकसभायाः राज्यसभायाश्च कार्यवाही मध्याह्ने द्वादशवादनपर्यन्तं स्थगिता। मध्याह्ने द्वादशवादने कार्यवाही पुनरारब्धायामपि गतिरोधः अवर्तत। ततः उभयोः सदनयोः कार्यवाहीं पुनः मध्याह्ने द्विवादनपर्यन्तं स्थगिता।
सर्वकारेण वर्षे २०२४ निर्मिते विधौ संशोधनार्थम् एतत् विधेयकं प्रस्तुतम्। प्रस्तावितसंशोधने प्रश्नपत्र-प्रस्रवणस्य आरोपितानां कृते अधिककठोरदण्डस्य महदर्थदण्डस्य च व्यवस्था कृता। तथा च राज्यसर्वकारेभ्यः केन्द्रशासितप्रदेशेभ्यश्च विशेष-त्वरितन्यायालयानां गठनस्य अधिकारं प्रदातुं प्रस्तावः कृतः, यत्र एतादृशानां प्रकरणानां प्रतिदिनं श्रवणं भविष्यति। अयं विधिः केन्द्रसर्वकारेण तस्य संस्थाभिश्च आयोजितासु सार्वजनिक-परीक्षासु प्रवर्तिष्यते। अस्य परिधौ संघलोकसेवायोगः, कर्मचारी-चयन-आयोग, रेल-नियुक्ति:, धनागार-नियुक्ति-परीक्षाः, राष्ट्रियपरीक्षा-अभिकरणम् तथा अन्याः केन्द्रीय-नियुक्ति-प्रवेशपरीक्षाश्च समाविष्टाः भविष्यन्ति।
सर्वकारस्य कथनानुसारम् एतत् संशोधनं नीट्-परीक्षायाः प्रश्नपत्र-प्रस्रवण-विवादस्य ततः परं देशव्यापिनां छात्र-आन्दोलनानां च परिप्रेक्ष्ये आनितम्। प्रधानमन्त्री नरेन्द्रमोदी २३ जुलाई-दिने विधानं अधिकं कठोरं कर्तुं घोषणां कृतवान्। अनन्तरं परीक्षा-व्यवस्थायाः सुधारार्थम् इन्फोसिस-निर्माण्याः सह-संस्थापकस्य नन्दन-नीलेकणेः अध्यक्षतायां उच्चस्तरीय-कार्यदलस्य गठनस्यापि घोषणा कृता।
अस्मिन्नन्तरे पूर्वकेन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः त्यागपत्रप्रदानानन्तरं प्रथम-वारं संसद्भवनम् आगतः। राष्ट्रिय-जनतान्त्रिक-गठबन्धनस्य सांसदैः तस्य शालया मिथिला-पागेन च सम्मानं कृतम्, ते च तम् संसद्भवनस्य अन्तःपर्यन्तं नीतवन्तः। अस्मिन् अवसरे सांसदैः धर्मेन्द्रप्रधानः जीवतु इति घोषाः अपि कृताः। नीट्-प्रश्नपत्र-प्रस्रवण-विवादस्य मध्ये धर्मेन्द्रप्रधानः २५ जुलाई-दिने स्वपदात् त्यागपत्रं दत्तवान्।
उल्लेखनीयं यत् ३ मई २०२६ दिनाङ्के आयोजितायाः नीट्-यूजी-परीक्षायाः प्रश्न-पत्रस्य प्रस्रवणानन्तरं परीक्षा निरस्ता भूत्वा पुनरायोजिता आसीत्। अस्य विषयस्य सम्बन्धे देशव्यापिनी विरोध-प्रदर्शनानि अभवन्। अस्य प्रकरणस्य अन्वेषणं केन्द्रीय-अन्वेषण-ब्यूरो करोति। अधुना यावत् त्रयोदश आरोपिताः गृहीताः सन्ति तथा च अभिकरणं शीघ्रमेव अभियोगपत्रं न्यायालये समर्पयितुं शक्नोति।
Hindusthan Samachar / Divya Ranjan