लोकसभाध्यक्षः, केंद्रीय गृहमंत्री अन्ये चाददुः डॉ. ए.पी.जे. अब्दुल कलामस्य पुण्यतिथौ श्रद्धांजलिम्
नव दिल्ली, 27 जुलाईमासः (हि.स.)। देशस्य पूर्वराष्ट्रपतिः, महान् वैज्ञानिकः भारतरत्नसम्मानविभूषितः डॉ. ए.पी.जे. अब्दुलकलामस्य पुण्यतिथ्यां लोकसभाध्यक्षः ओमबिर्ला, केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः, केन्द्रीयमन्त्रिणः तथा विविधराज्याना
भारत रत्न डॉ. ए.पी.जे. अब्दुल कलाम (फाइल फोटो)।


नव दिल्ली, 27 जुलाईमासः (हि.स.)।

देशस्य पूर्वराष्ट्रपतिः, महान् वैज्ञानिकः भारतरत्नसम्मानविभूषितः डॉ. ए.पी.जे. अब्दुलकलामस्य पुण्यतिथ्यां लोकसभाध्यक्षः ओमबिर्ला, केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः, केन्द्रीयमन्त्रिणः तथा विविधराज्यानां मुख्यमन्त्रिणः श्रद्धाञ्जलिम् अर्पितवन्तः। सर्वैः डॉ. कलामस्य वैज्ञानिकयोगदानम्, सरलजीवनम्, राष्ट्रसेवा, युवजनानां प्रेरणादायकं व्यक्तित्वञ्च स्मृत्वा सः राष्ट्रस्य अमूल्यरत्नमिति कथितः।

लोकसभाध्यक्षः ओम बिरला उक्तवान् यत् डॉ. कलामः विकसितस्य आत्मनिर्भरस्य सशक्तस्य च भारतस्य दूरदर्शी स्वप्नद्रष्टा आसीत्। तेन स्वदेशीक्षेपणास्त्रकार्यक्रमाः अन्तरिक्षकार्यक्रमाश्च नूतनशिखराणि प्राप्ताः तथा ज्ञानम्, अनुशासनम्, सरलता, राष्ट्रसेवा च स्वजीवनस्य आधाररूपेण स्वीकृतानि। डॉ. कलामस्य प्रसिद्धवचनं “स्वप्नानि तानि न सन्ति यानि निद्रायां दृश्यन्ते, अपितु तानि स्वप्नानि यानि भवतः निद्रां न आगन्तुं ददति” इति उद्धृत्य सः उक्तवान् यत् एतत् अद्यापि युवजनान् स्वलक्ष्ये समर्पितभावेन स्थितुं प्रेरयति।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः डॉ. कलामं भारतस्य अन्तरिक्षकार्यक्रमस्य क्षेपणास्त्रकार्यक्रमस्य च दूरदर्शिनं सूत्रधारम् इति वर्णयन् उक्तवान् यत् विज्ञानक्षेत्रे तस्य असाधारणसफलताभिः भारतः दृढरणनीतिकशक्तिरूपेण प्रतिष्ठां प्राप्तवान्। तेन उक्तं यत् “जनतायाः राष्ट्रपति” इति रूपेण डॉ. कलामः सदा राष्ट्रभक्तानाम् आदर्शः भविष्यति।

रक्षामन्त्री राजनाथसिंहः तं “पीपुल्स् प्रेसिडेण्ट्”, “मिसाइल् मैन् ऑफ् इण्डिया” इति विख्यातम् असाधारणवैज्ञानिकञ्च निरूप्य उक्तवान् यत् भारतस्य स्वदेशीक्षेपणास्त्रव्यवस्थायाः रणनीतिकरक्षासामर्थ्यस्य च सुदृढीकरणे तस्य भूमिका ऐतिहासिकी आसीत्। तेन उक्तं यत् तस्य सरलम् ईमानदारं च जीवनम् आगामिपीढीः महान् स्वप्नदर्शनाय राष्ट्रसेवायै च सदा प्रेरयिष्यति।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी पूर्वराष्ट्रपतिं “मिसाइल् मैन्” डॉ. कलामं स्मृतिदिवसे सादरम् अभिवादितवान्। केन्द्रीयमन्त्री जे.पी. नड्डा उक्तवान् यत् डॉ. कलामः भारतं सामरिकक्षेत्रे परमाणुप्रतिरोधकसामर्थ्यक्षेत्रे च सुदृढं कर्तुं अमूल्यं योगदानम् अददात्। तेन अग्निक्षेपणास्त्रकार्यक्रमः, पृथ्वीक्षेपणास्त्रकार्यक्रमः, एस्.एल्.वी.-३ विकासः, रोहिण्युपग्रहस्य सफलप्रक्षेपणम्, पोखरण-द्वितीयपरमाणुपरीक्षणेषु तस्य महत्त्वपूर्णां भूमिकां स्मृत्वा उक्तं यत् तस्य जीवनं युवजनान् राष्ट्रनिर्माणाय सदा प्रेरयिष्यति।

केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः डॉ. कलामं भारतस्य परमाणुसम्पन्नराष्ट्रनिर्माणे महत्त्वपूर्णभूमिकां निर्वहन्तं महान् वैज्ञानिकम् इति कथयन् श्रद्धाञ्जलिम् अर्पितवान्। तेन उक्तं यत् तस्य विचाराः आदर्शाश्च युवपीढेः मार्गदर्शनं निरन्तरं करिष्यन्ति। केन्द्रीयमन्त्री मनोहरलालः उक्तवान् यत् राष्ट्रोत्थानाय समर्पितं डॉ. कलामस्य जीवनं शिक्षितस्य सशक्तस्य गौरवशालिनः भारतस्य निर्माणाय प्रेरणां प्रदास्यति।

दिल्लीनगर्याः मुख्यमन्त्री रेखागुप्ता उक्तवती यत् डॉ. कलामः स्वदूरदर्शितया, स्वदेशीक्षेपणास्त्रप्रौद्योगिक्या, नवाचारैश्च भारताय वैश्विकस्तरे नूतनाम् अभिज्ञानं प्रदत्तवान्। तस्य सरलजीवनम् उच्चविचाराश्च सदा राष्ट्रसेवायाः प्रेरणां दास्यन्ति। मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः उक्तवान् यत् डॉ. कलामः भारतस्य परमाणुशक्तिरूपेण प्रतिष्ठापने महत्त्वपूर्णं योगदानम् अददात्। विज्ञाने, शिक्षायां, राष्ट्रनिर्माणे च तस्य योगदानं सदा अविस्मरणीयं भविष्यति।

राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा डॉ. कलामं ज्ञानस्य विज्ञानस्य नवाचारस्य च प्रतीकमिति निरूप्य उक्तवान् यत् तस्य आदर्शैः कर्मनिष्ठजीवनेन च कोटिशः युवजनाः प्रेरणां प्राप्स्यन्ति। आमआदमीपक्षस्य राष्ट्रियसंयोजकः अरविन्दकेजरीवालः डॉ. कलामाय श्रद्धाञ्जलिम् अर्पयन् उक्तवान् यत् तेन छात्रेषु विज्ञानविषये रुचिः जागरिता तथा शिक्षामाध्यमेन विकसितभारतनिर्माणस्य स्वप्नं दृष्टम्। तेन उक्तं यत् डॉ. कलामः सदा शिक्षकत्वेनैव स्मर्तुम् इच्छति स्म, तेन प्रदर्शितेन मार्गेण गमनमेव भारतस्य विकसितराष्ट्रत्वस्य साधनम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani