Enter your Email Address to subscribe to our newsletters

रायपुरम्, २७ जुलाईमासः (हि.स.)। महिला-बालविकास-समाजकल्याण-मन्त्री लक्ष्मी-राजवाड़े अद्य रायपुरस्य कोटा-क्षेत्रे सेवाभारत्या सञ्चालितस्य ‘मातृच्छाया’ इत्यस्याः विंशतितम-स्थापनादिवस-समारोहे सहभागिनी अभवत्। अस्मिन्नवसरे संस्थया नवजात-परित्यक्त-अनाथशिशूनां संरक्षणे, पालन-पोषणे, शिक्षायां संस्कार-प्रदाने च क्रियमाणानां कार्याणां प्रशंसां कृत्वा एतत् सेवायाः संवेदनायाश्च उत्कृष्टम् उदाहरणम् इति उक्तवती।
मन्त्री राजवाड़े बालकैः सह आत्मीयतया मिलित्वा अवदत् यत् ‘मातृच्छाया’ एतादृशेभ्यः बालकेभ्यः सुरक्षितमाश्रयं, स्नेहं, उज्ज्वलं भविष्यं च प्रदातुं प्रशंसनीयं कार्यं करोति। अत्र बालकानां समुचितपरिचर्यया सह वैधानिक-प्रक्रियानुसारं तेषां निःसन्तान-दम्पतीभ्यः दत्तकप्रदानस्य व्यवस्थापि क्रियते। सेवाभारती अपि नष्टबालकान् तेषां परिजनान् प्रति पुनः प्रापयितुं महत्त्वपूर्णां भूमिकां निर्वहति।
सा अवदत् यत् ‘नरसेवा एव नारायणसेवा’ इति भावनया कार्यरताः संस्थायाः कार्यकर्तारः समाजस्य कृते प्रेरणास्रोतांसि सन्ति। मन्त्री लक्ष्मी-राजवाड़े सेवा-भारती-‘मातृच्छाया’-परिवाराय स्थापनादिवसस्य शुभकामनाः प्रदाय संस्थायाः सेवाकार्याणां निरन्तरविस्तारस्य कामनाम् अकरोत्।
Hindusthan Samachar / Divya Ranjan