प्रदर्शनं छात्रच्छात्राणाम् अधिकारः,परं मर्यादामुल्लङ्घ्य गालिकथनं उचितं न : मीनाक्षी भराला
बागपतम्, 27 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य बागपतजनपदे समाहर्तृकार्यालयस्य सभागारे सोमवासरे महिलासम्बद्धविषयेषु आयोजितायां जनश्रवणकार्यवाह्यां महिला आयोगस्य सदस्या मीनाक्षी भराला सीजेपी प्रोटेस्ट इत्यस्य विषये प्रश्नम् उत्थापितवती। सा उक्तवती य
कलेक्ट्रेट सभागार में जनसुनवाई करते महिला आयोग सदस्य


बागपतम्, 27 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य बागपतजनपदे समाहर्तृकार्यालयस्य सभागारे सोमवासरे महिलासम्बद्धविषयेषु आयोजितायां जनश्रवणकार्यवाह्यां महिला आयोगस्य सदस्या मीनाक्षी भराला सीजेपी प्रोटेस्ट इत्यस्य विषये प्रश्नम् उत्थापितवती। सा उक्तवती यत् मया आन्दोलनस्य सहभागिनीनां छात्रीणां तादृशानि दृश्यश्रव्याणि दृष्टानि यत्र ताः अशोभनाः गालीः प्रयुञ्जते स्म। धरनाप्रदर्शनं तासां अधिकारः अस्ति, किन्तु मर्यादायाः उल्लङ्घनं न उचितम्। छात्रीभिः प्रथमम् अभद्रव्यवहारः कृतः, यस्य कारणात् पुलिसबलस्य बलप्रयोगः कर्तव्यः अभवत्।

पत्रकारैः सह संवादकाले मीनाक्षी भरालया दिल्लीस्थस्य सीजेपी धरनस्य विषये पृष्टायाम् उक्तं यत् प्रदर्शनकारिभिः धरनाप्रदर्शने संयमः धारयितव्यः आसीत्। किन्तु तैः यद् अशिष्टव्यवहारः कृतः तस्य अनन्तरं तत्र स्थितिः विषमा अभवत् तथा च पुलिसबलं कठोरतया व्यवहारं कर्तुं बाध्यम् अभवत्।

महिला आयोगस्य सदस्या मीनाक्षी भराला अत्र जनश्रवणकार्यक्रमे आगताभिः पीडिताभिः सह संवादम् अकरोत्। तया उक्तं यत् जनश्रवणे द्वादशतः पञ्चदशपर्यन्ताः प्रकरणानि आगतानि, येषु कानिचित् पूर्वमेव प्रचलन्ति। केषुचित् प्रकरणेषु समझौतस्य प्रयासः क्रियते। गम्भीरप्रकरणेषु सम्बद्धथानप्रभारिभिः सह वार्ता कृता अस्ति। महिलासुरक्षा अस्माकं प्राथमिकता अस्ति।

महिला आयोगस्य सदस्यया कांवडयात्रामार्गे आपणेषु नामलेखनस्य विषये पृष्टायाम् उक्तं यत् सर्वैः आपणिकैः स्वस्वापणे स्वनाम लेखने काचिदपि समस्या न भवेत्। मुख्यमन्त्रिणा योगी आदित्यनाथेन हिन्दुधार्मिकश्रद्धानां सम्मानं दृष्ट्वा एतादृशः निर्णयः कृतः। अस्माकं धर्मानुसारं श्रावणमासे मांसमद्यसेवनं वर्जितम् अस्ति, अतः धर्मरक्षणार्थम् एतादृशानि कार्याणि आवश्यकानि सन्ति। अस्मिन्नवसरे सम्बद्धाः जनपदीयाधिकारिणः अपि उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani