Enter your Email Address to subscribe to our newsletters

रायपुरम्, २७ जुलाईमासः (हि.स.)। वित्तमन्त्री ओ.पी. चौधरी भारतस्य पूर्वराष्ट्रपतिं, महान् वैज्ञानिकम्, ‘मिसाइल-मैन’, ‘भारतरत्न’-सम्मानेन अलङ्कृतं डॉ. ए.पी.जे. अब्दुल-कलामं तस्य पुण्यतिथौ सादरं प्रणम्य श्रद्धाञ्जलिम् अर्पितवान्।
वित्तमन्त्री चौधरी अवदत् यत् डॉ. ए.पी.जे. अब्दुल-कलामस्य जीवनं ज्ञानस्य, विज्ञानस्य, राष्ट्रसेवायाः, सरलतायाश्च अनुपमम् उदाहरणम् अस्ति। तेन स्वस्य वैज्ञानिकयोगदानेन, दूरदर्शिना नेतृत्वेन, प्रेरणादायिना व्यक्तित्वेन च भारतं नूतनासु उन्नतिषु नेतुं महत्त्वपूर्णां भूमिकां निर्वहिताम्। सः अवदत् यत् डॉ. कलामस्य एषः प्रेरणादायी विचारः— “जीवने सफलतायाः वास्तविकः आनन्दः तदैव अनुभूयते यदा सा कठिनपरिश्रमेण प्राप्यते।” प्रत्येकं यून: कठिनपरिश्रमेण, दृढसङ्कल्पेन, आत्मविश्वासेन च स्वलक्ष्यस्य प्राप्त्यर्थं निरन्तरम् अग्रे गन्तुं प्रेरयति।
वित्तमन्त्री ओ.पी. चौधरी अवदत् यत् डॉ. ए.पी.जे. अब्दुल-कलामस्य आदर्शाः, तस्य विचाराः, राष्ट्रनिर्माणे तस्य समर्पणभावश्च सदा देशवासिनां मार्गदर्शनं करिष्यन्ति। तस्य प्रेरणादायकं जीवनम् अग्रिम-वंशानां कृते सदैव प्रेरणापुञ्जः भविष्यति।
Hindusthan Samachar / Divya Ranjan