Enter your Email Address to subscribe to our newsletters

- ब्रिक्स देशानां संस्कृति मंत्री प्रतिनिधयश्च सम्मेलिष्यन्ते।
भोपालम्, 27 जुलाईमासः (हि.स.)।
मध्यप्रदेशस्य राजधानी भोपालनगरे प्रतिष्ठितं अन्तरराष्ट्रीयं ब्रिक्ससम्मेलनं ब्रिक्सकल्चरलट्रैकमीटिङ्ग् आगामि ५ अगस्ततः ८ अगस्तपर्यन्तं आयोजयिष्यते। अस्मिन् ब्रिक्सदेशानां संस्कृतिमन्त्रिणः प्रतिनिधयश्च सहभागीभविष्यन्ति। ब्रिक्सदेशानां कलाकारैः सांस्कृतिककार्यक्रमेषु विविधाः सांस्कृतिकप्रस्तुतयः अपि प्रदर्शयिष्यन्ते।
एषा सूचना सोमवासरे भोपालसम्भागायुक्तः कर्मवीरशर्मा आयुक्तकार्यालये आयोजितायां सम्मेलनस्य सज्जतासमीक्षोपवेशने अददात्। अस्मिन् अवसरे सः सज्जतानां विस्तृतसमीक्षां कृत्वा निर्देशान् अददात् यत् सम्मेलनस्य सर्वाः व्यवस्थाः भारतस्य संस्कृतेः गौरवस्य परम्परायाश्च अनुरूपाः उत्कृष्टाः भवेयुः। सः सूक्ष्मयोजनायां विशेषं बलं दत्त्वा केन्द्रराज्यशासनयोः सर्वान् अधिकारिणः पूर्णसमन्वयेन कार्यं कर्तुं निर्देशितवान्।
उपवेशने केन्द्रीयसंस्कृतिमन्त्रालयस्य सञ्चालिका प्रियङ्काचन्द्रा दृश्यश्रव्यसम्मेलनमाध्यमेन उपस्थिता आसीत्। आयुक्तकार्यालये भोपालजिलाधिकारी प्रियङ्कमिश्रः, स्मार्टसिटीमुख्यकार्यपालनाधिकारी अञ्जूअरुणकुमारः, संयुक्तायुक्तः डॉ विनोदयादवः, जिलापञ्चायतमुख्यकार्यपालनाधिकारी इलातिवारी, पुरातत्त्वविभागस्य, संस्कृतिविभागस्य, एमएचएआई संस्थायाः तथा सम्बद्धविभागानाम् अधिकारिणः उपस्थिताः आसन्।
प्रस्तावितकार्यक्रमः
प्रस्तावितकार्यक्रमानुसारं ब्रिक्ससंस्कृतिसम्मेलने पञ्चम्यां अगस्तमासस्य ब्रिक्सदेशानां प्राविधिकसमितीनाम् उपवेशनं भोपालस्य मिण्टोहॉल सभागारे भविष्यति। सायंकाले सदस्याः इन्दिरागान्धीराष्ट्रीयमानवसङ्ग्रहालयस्य भ्रमणं करिष्यन्ति।
अनन्तरं षष्ठ्यां अगस्तमासस्य पुनः ब्रिक्सदेशानां प्राविधिकसमितीनाम् उपवेशनं मिण्टोहॉल सभागारे भविष्यति। सायंकाले रवीन्द्रभवने ब्रिक्ससांस्कृतिकमहोत्सवे ब्रिक्सदेशानां कलाकारैः सांस्कृतिकप्रस्तुतयः प्रदर्शयिष्यन्ते।
ततः सप्तम्यां अगस्तमासस्य ब्रिक्सदेशानां संस्कृतिमन्त्रिणाम् आगमनं भविष्यति। ततः परं ते भोपाले जनजातीयसङ्ग्रहालयस्य, वनविहारस्य तथा राज्यसङ्ग्रहालयस्य भ्रमणं करिष्यन्ति। सायं पञ्चवादनात् सप्तवादनपर्यन्तं रवीन्द्रभवने ब्रिक्ससांस्कृतिकमहोत्सवस्य तथा सांस्कृतिककार्यक्रमस्य आयोजनं भविष्यति।
अष्टम्यां अगस्तमासस्य प्रातः दशवादनात् अपराह्णद्विवादनपर्यन्तं ब्रिक्सदेशानां संस्कृतिमन्त्रिणां कुशाभाऊठाकरेसभागारे उपवेशनं भविष्यति। अपराह्णे साञ्चीस्तूपस्य भ्रमणं प्रस्तावितम् अस्ति।
---------------