मध्यप्रदेशस्य इन्दौरनगरे अङ्गदानाय अष्टषष्टितमः ‘ग्रीन-परिसर:’ इति निर्मितः, गौरवः चतुर्भ्यः जनेभ्यः नूतनं जीवनम् अयच्छत्
— गौरवस्य हृदयं अहमदाबादस्थितस्य युवकस्य वक्षसि स्पन्दिष्यति, यकृत् उभे वृक्के च इन्दौरे प्रत्यारोपिते इन्दौरनगरम्, २७ जुलाईमासः (हि.स.)। अङ्गदानक्षेत्रे देशव्यापी आदर्शरूपेण प्रतिष्ठितं मध्यप्रदेशस्य इन्दौरनगरेण पुनरेकवारं मानवतायाः उत्कृष्टम् उद
गौरव के अंगों को प्रत्यारोपित के लिए भेजते हुए


अंगदानी इंदौर के गौरव दवे


अंगदान के बाद गौरव के पार्थिव शरीर को गार्ड आफ आनर देते हुए


— गौरवस्य हृदयं अहमदाबादस्थितस्य युवकस्य वक्षसि स्पन्दिष्यति, यकृत् उभे वृक्के च इन्दौरे प्रत्यारोपिते

इन्दौरनगरम्, २७ जुलाईमासः (हि.स.)। अङ्गदानक्षेत्रे देशव्यापी आदर्शरूपेण प्रतिष्ठितं मध्यप्रदेशस्य इन्दौरनगरेण पुनरेकवारं मानवतायाः उत्कृष्टम् उदाहरणम् प्रस्तुतम्। नगरस्य खजूरी-विपण-क्षेत्रनिवासी पञ्चविंशतिवर्षीयः गौरव-दवे स्वस्य अङ्गदानेन चतुर्भ्यः जनेभ्यः नूतनं जीवनम् अयच्छत्। तस्य मस्तिष्कमृत्युः घोषिता अभवत्, ततः सोमवासरे नगरे अष्टषष्टितमः ग्रीन-परिसर: निर्मितः, येन तस्य हृदयं अहमदाबादनगरं प्रेषितम्। यकृत्, उभे वृक्के, अन्यानि च अङ्गानि इन्दौरनगरे एव आवश्यकतावतां रोगिणां शरीरेषु प्रत्यारोपितानि।

चिकित्सकानां कथनानुसारं खजूरी-विपण-निवासिनोः सतीश-दवे कविता-दवे दम्पत्योः पञ्चविंशतिवर्षीयः पुत्रः गौरवः गतस्य १३ जुलाई-दिने आकस्मिकं मस्तिष्करक्तस्रावेण पीडितः अभवत्। ततः सः राजश्री-अपोलो-चिकित्सालये प्रविष्टः। चिकित्सकैः सर्वथा उपचारः कृतः, किन्तु तस्य स्वास्थ्ये सुधारः नाभवत्। नियमानुसारं द्विवारं चिकित्सकीय-परीक्षणानन्तरं विशेषज्ञवैद्यदलस्य निर्णयेन रविवासरस्य रात्रौ सः मस्तिष्कमृतः इति घोषितः।

युवपुत्रस्य वियोगदुःखमपि सहमानस्य दवे-परिवारस्य निर्णयः अनेकानां जीवनेषु नूतनाम् आशां जनितवान्। परिवारस्य सम्मत्याः अनन्तरं गौरवस्य हृदयं, यकृत्, उभे वृक्के, नेत्रे च दानरूपेण समर्पितानि। अस्य कृते सोमवासरे इन्दौरे अष्टषष्टितमः ग्रीन-परिसरः इति निर्मितः।

अङ्गदानप्रक्रियायां सहयोगिनः मुस्कान-पारमार्थिक-न्यासस्य सेवादारः सन्दीपन-आर्यः अवदत् यत् परिवारस्य एकमात्रः पुत्रः गौरवः चलचित्रोद्योगे कास्टिङ्-निर्देशकः आसीत्, अभिनेता भवितुमपि तस्य अभिलाषः आसीत्। तस्य पिता सतीश-दवे सेवानिवृत्तः शासकीयकर्मचारी, माता गृहिणी, भगिनी वैदेही च विवाहितासीत्। मस्तिष्कमृत्युः सुनिश्चितीभूतायां भगिनी वैदेही-राठी, तस्याः पतिः पल्केश-राठी, भ्राता ऋतिक-चावरे च मातापितरौ सान्त्वयित्वा अङ्गदानविषये चर्चाम् अकुर्वन्। अनन्तरं मातापितरौ तस्मै सम्मतिं प्रदत्तवन्तौ।

तेन उक्तं यत् चिकित्सकैः परिवाराय मस्तिष्कमृत्योः अङ्गदानस्य च विषये सम्यक् विवरणं प्रदत्तम्। ततः राष्ट्रीयस्तरे अङ्गप्रत्यारोपणस्य प्रक्रिया आरब्धा। सोमवासरस्य प्रातःकाले गौरवस्य यकृत् राजश्री-अपोलो-चिकित्सालये प्रविष्टाय द्विचत्वारिंशद्वर्षीयाय रोगिणे प्रत्यारोपितम्। तस्य हृदयं निर्धारितसमये विमानस्थानकं नीत्वा प्रातः ८:३६ वादने इण्डिगो-विमानेन अहमदाबादं प्रेषितम्, यत्र यू.एन्. मेहता-चिकित्सालये प्रविष्टाय अष्टाविंशति-वर्षीयाय रोगिणे प्रत्यारोपणं भविष्यति। उभे वृक्के चोइथराम-चिकित्सालये प्रविष्टाभ्यां द्वाविंशति-वर्षीयायै द्विपञ्चाशद्वर्षीयायै च महिलारोगिण्यौ प्रत्यारोपिते। नेत्रे शङ्करा-नेत्रकोषस्य माध्यमेन दत्ते। अङ्गदानानन्तरं गौरवस्य पार्थिवदेहाय गार्ड-ऑफ-ऑनर प्रदत्तः।

गौरवेन सह चलचित्रोद्योगे कार्यरतायाः ड्रीम-वर्ल्ड-मूवीज-एण्ड-प्रोडक्शन-संस्थायाः विभागाध्यक्षा महक-राज: अवदत् यत् बी.कॉम. उपाधिं प्राप्य सः चतुर्वर्षपूर्वं चलचित्रोद्योगेन सम्बद्धः अभवत्। इन्दौरे एव वसन् कार्यं करोति स्म। स्वपरिश्रमेण, प्रामाणिकतया, मिलनसारस्वभावेन च सः सर्वेषां प्रियः आसीत्। अद्य सः अस्माकं मध्ये नास्ति, किन्तु गच्छन् अपि बहुभ्यः जनाभ्यः नूतनं जीवनं दत्त्वा सः वास्तविकरूपेण नायकः अभवत्।

महक-राज् अवदत् यत् गौरवः बाल्यकालादेव मोया-मोया इति दुर्लभ-मस्तिष्करोगेण पीडितः आसीत्। अस्य रोगस्य विश्वे केवलम् अष्ट, भारते त्रयः एव रोगिणः ज्ञायन्ते। १३ जुलाई-दिने सः चिकित्सालये प्रविष्टः, द्विदिनानन्तरं मस्तिष्कशल्यक्रिया कृता, द्वौ स्टेण्टौ स्थापितौ। अनन्तरं सः सघनचिकित्सा-विभागात् सामान्यकक्षे स्थानान्तरितः, किन्तु परदिने पुनः स्वास्थ्यं विषमं जातम्, अतः वायुसहायकयन्त्रे स्थापितः। ततः परं सः पुनः सचेतनः नाभवत्।

फुफ्फुसयोः प्रत्यारोपणं अन्तिमक्षणे स्थगितम्

केन्द्रसर्वकारस्य राष्ट्रीय-अङ्ग-ऊतक-प्रत्यारोपण-सङ्गठनेन गौरवस्य फुफ्फुसे चेन्नई-स्थितस्य अपोलो-चिकित्सालयस्य रोगिणे आवंटिते। किन्तु चेन्नईनगरात् समये आवश्यकव्यवस्थायाः अभावात् अन्तिमक्षणे फुफ्फुसदानप्रक्रिया स्थगिता अभवत्। हृदय-वाल्व-इत्यस्य, अग्न्या-शयस्य, लघ्वन्त्रस्य च राष्ट्रियस्तरे आवंटनप्रक्रियापि सम्पन्ना।

अहमदाबादस्थितस्य यू.एन्. मेहता-चिकित्सालयस्य हृदयप्रत्यारोपण-शल्य-विशारदः डॉ. कार्तिक-पटेलस्य नेतृत्वे दशसदस्यीयं वैद्यदलम् रात्रौ एव रुग्णवाहन्या प्रस्थितं प्रातः ४:२० वादने इन्दौरम् अगच्छत्। ततः निर्धारित-नियमानुसारम् अङ्गनिष्कासन-प्रत्यारोपण-प्रक्रिया आरब्धा। सम्पूर्णा प्रक्रिया अपोलो-चिकित्सालयस्य वरिष्ठवैद्यैः डॉ. अभिलाष-पिल्लै, डॉ. सुशील-कुमार-जैन:, डॉ. अङ्कुर-गुप्त:, डॉ. अभि-पालीवाल: इत्येतेषां मार्गदर्शने सम्पन्ना। चिकित्सालयप्रबन्धनस्य कथनानुसारं सर्वाः वैधानिक-चिकित्सकीय-प्रक्रियाः निर्धारित-नियमानुसारमेव सम्पन्नाः।

‘ग्रीन-परिसरः’ जीवनस्य सूत्रम् अभवत्

मुस्कान-समूहस्य जीतू-बगानी सन्दीपन-आर्यश्च अवदताम् यत् येषु मार्गेषु रुग्णवाहन्या अङ्गानि विभिन्न-चिकित्सालयेषु प्रापितानि, तेषु मार्गेषु यातायात-आरश्रकेण विशेषः ग्रीन-परिसरः निर्मितः। अस्य उद्देश्यम् अङ्गानि न्यूनतमसमये सुरक्षितरूपेण सम्बन्धित-चिकित्सालयेषु प्रापयितुं, येन प्रत्यारोपणप्रक्रिया समये सम्पन्ना भवेत्।

Hindusthan Samachar / Divya Ranjan