खण्डवानगरे अद्य बलराम-कृषि-महोत्सवस्य आयोजनम्, कृषकान् सम्बोधयिष्यति मुख्यमन्त्री
– कृषकेभ्यः आधुनिक-कृषि-प्रविधीनां तथा कृषि-यान्त्रीकरणस्य सूचना प्रदास्यते इन्दौरनगरम्, २६ जुलाईमासः (हि.स.)। मध्यप्रदेशे वर्षं २०२६ कृषक-कल्याण-वर्षम् इति रूपेण आचर्यते। अस्याः योजनायाः अन्तर्गतं जनपदस्तरे बलराम-कृषि-महोत्सवाः आयोज्यन्ते। अस
सीएम मोहन यादव


– कृषकेभ्यः आधुनिक-कृषि-प्रविधीनां तथा कृषि-यान्त्रीकरणस्य सूचना प्रदास्यते

इन्दौरनगरम्, २६ जुलाईमासः (हि.स.)। मध्यप्रदेशे वर्षं २०२६ कृषक-कल्याण-वर्षम् इति रूपेण आचर्यते। अस्याः योजनायाः अन्तर्गतं जनपदस्तरे बलराम-कृषि-महोत्सवाः आयोज्यन्ते। अस्यैव क्रमस्य अन्तर्गतं खण्डवानगरे अद्य सोमवासरे नूतन-कृष्युपज-मण्डी-परिसरे प्रातः ११वादनात् बलराम-कृषि-महोत्सवस्य आयोजनं क्रियते।

कृष्युपसञ्चालकः नितेश-यादवः अवदत् यत् अस्मिन् कार्यक्रमे मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन-यादवः कृषकैः सह संवादं करिष्यति। बलराम-कृषि-महोत्सवे कृषकेभ्यः आधुनिक-कृषि-प्रविधीनाम्, उन्नत-बीजानाम्, नवीन-कृषि-यन्त्राणाम्, प्राकृतिक-जैविक-कृषेः, सस्य-विविधीकरणस्य, जल-संरक्षणस्य तथा सर्वकारस्य कृषक-हितैषिणीनां योजनानां विषये विस्तृता सूचना प्रदास्यते, येन कृषि: अधिका लाभप्रदा, स्थायिनी समृद्धा च भवेत्।

सः अवदत् यत् अस्मिन् महोत्सवे कृषि-विभागेन सह उद्यानिकी-विभागः, पशुपालन-विभागः, मत्स्यपालन-विभागः, सहकारिता-विभागः, कृषि-अभियांत्रिकी-विभागः तथा अन्ये सम्बद्ध-विभागाः आकर्षक-प्रदर्शिन्यः आयोजयिष्यन्ति। कृषकेभ्यः विभिन्न-विभागानां विशेषज्ञैः सह प्रत्यक्ष-संवादस्य स्वसमस्यानां समाधानस्य च अवसरः भविष्यति। तदतिरिक्तं तेभ्यः नवीन-प्रौद्योगिकीनां विपणि-आधारित-कृषि-प्रतिमानानां च परिचयः अपि प्रदास्यते।

महोत्सवे कृषकेभ्यः डिजिटल-कृषि-सेवानाम्, ऑनलाइन-कृषि-परामर्शस्य, मौसमाधारित-कृषेः, मृदा-स्वास्थ्य-प्रबन्धनस्य, ड्रोन-प्रौद्योगिक्याः, स्मार्ट-सिञ्चनस्य, उन्नत-कृषि-यन्त्राणां तथा आधुनिक-कृषि-प्रबन्धन-प्रणालीनां विषये अपि सूचना प्रदास्यते। कृषि-विशेषज्ञैः परिवर्तमान-जलवायोः अनुरूपाः नवीन-कृषि-पद्धतयः तथा समस्यात्मक-प्रबन्धनस्य उपायाश्च कृषकेभ्यः अवबोधिताः भविष्यन्ति।

हिन्दुस्थान समाचार / Divya Ranjan