Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 27 जुलाईमासः (हि.स.)।
भारतं वैश्विकपर्यटनस्य प्रियगन्तव्यस्थलरूपेण प्रवर्धयितुं पर्यटनमन्त्रालयेन टाटासमूहस्य नेतृत्वयुक्तया एयरइण्डियाविमानसेवया सह एकस्मिन् अवबोधनपत्रे हस्ताक्षराणि कृतानि। अस्य सहयोगस्य माध्यमेन इन्क्रेडिबल इण्डिया इति ब्राण्डस्य अन्तर्गतं पर्यटनस्थलानां प्रचारः, पर्यटनसम्बद्धजनसम्पर्कः तथा आगन्तुकानां सहभागिता च अधिकं सुदृढा भविष्यति।
पर्यटनमन्त्रालयेन प्रकाशितवक्तव्ये उक्तं यत् नूतनदिल्लीनगरे केन्द्रीयपर्यटनसंस्कृतिमन्त्री गजेन्द्रसिंहशेखावतस्य उपस्थितौ अयं कार्यक्रमः आयोजितः। अस्मिन् पर्यटनमन्त्रालयस्य सचिवः भुवनेशकुमारः, अपरसचिवः तथा पर्यटनमहानिदेशकः सुमनबिल्ला, संयुक्तसचिवः हरिकिशोरः एस, एयरइण्डियाविमानसेवायाः मुख्यवाणिज्याधिकारी निपुणअग्रवालः, एयरइण्डियायाः शासनजोखिमानुपालनकम्पनीकार्यसमूहस्य प्रमुखः पी बालाजी तथा पर्यटनमन्त्रालयस्य एयरइण्डियायाश्च अन्ये वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।
मन्त्रालयेन उक्तं यत् अस्य सहयोगस्य उद्देश्यं पर्यटनमन्त्रालयस्य पर्यटनस्थलप्रचारकार्यक्रमाणां तथा एयरइण्डियायाः विस्तीर्णस्य देशीयान्ताराष्ट्रियविमानजालस्य लाभं स्वीकृत्य भारतस्य पर्यटनदृश्यतां वर्धयितुम्, विदेशीपर्यटनं सुदृढीकर्तुम् तथा भारतं वैश्विकपारगमनयात्राकेन्द्ररूपेण प्रतिष्ठापयितुम् अस्ति। एषा भागीदारी अवाणिज्यिका, अबाध्यकारिणी, अनन्यनिष्ठा च अस्ति, यस्यां कस्यापि पक्षस्य उपरि कापि वित्तीयप्रतिबद्धता नास्ति।
एयरइण्डियया प्रकाशितवक्तव्ये उक्तं यत् भारतस्य प्रमुखा वैश्विकविमानसेवा एयरइण्डिया तथा भारतसर्वकारस्य पर्यटनमन्त्रालयेन अवबोधनपत्रे हस्ताक्षराणि कृतानि। अस्य मुख्योद्देश्यः भारतं प्रमुखवैश्विकपर्यटनगन्तव्यरूपेण प्रवर्धयितुं तथा महत्त्वपूर्णविमानयातायातपारगमनकेन्द्ररूपेण भारतस्य स्थानं सुदृढीकर्तुम् अस्ति।
--------------------
Hindusthan Samachar / Dheeraj Maithani