इंडियन आइडल-16इत्यस्य विजेत्र्याः ज्योतिर्मयीनायकस्य भुवनेश्वरे भव्यं स्वागतम्
भुवनेश्वरम्, 27 जुलाईमासः (हि.स.)। इण्डियन आइडल षोडशतमस्य संस्करणस्य विजेत्री ज्योतिर्मयी नायकः सोमवासरे स्वस्य ऐतिहासिकविजयानन्तरं भुवनेश्वरं प्राप्तवती। विमानस्थानके तस्याः स्वागतार्थं बहुसंख्याकाः प्रशंसकाः माध्यमप्रतिनिधयश्च उपस्थिताः आसन्। ते
ज्योतिर्मयी नायक


भुवनेश्वरम्, 27 जुलाईमासः (हि.स.)।

इण्डियन आइडल षोडशतमस्य संस्करणस्य विजेत्री ज्योतिर्मयी नायकः सोमवासरे स्वस्य ऐतिहासिकविजयानन्तरं भुवनेश्वरं प्राप्तवती। विमानस्थानके तस्याः स्वागतार्थं बहुसंख्याकाः प्रशंसकाः माध्यमप्रतिनिधयश्च उपस्थिताः आसन्। ते तस्याः सफलतायात्रायाः विषये ज्ञातुं विशेषरुचिं प्रदर्शितवन्तः। विमानस्थानकं प्राप्तायाः तस्याः भव्यस्वागतं कृतम्।

ज्योतिर्मयी नायक बहुसप्ताहपर्यन्तं उत्कृष्टं निरन्तरं च प्रदर्शनं कृत्वा एतत् प्रतिष्ठितं बिरुदं स्वनाम्नि कृतवती। अन्तिमस्पर्धायां सा अंशिका चोंकर, मनराज वीर सिंह, मैस्म्मे बोसु, सुहैल सूफी तथा तनिष्क शुक्ल इत्यादीन् प्रतिभाशालिनः प्रतियोगिनः पराजित्य विजयम् अलभत। विजेत्रीभूतायै तस्यै विंशतिलक्षरूप्यकाणां नगदपुरस्कारः ट्रोफी च प्रदत्ता।

माध्यमैः सह संवादे ज्योतिर्मय्या स्वीयां यात्रां स्मरन्त्या उक्तं यत् मम यात्रा कदापि सरला नासीत्। अस्याम् अनेके उतारचढावाः अभवन्। अद्य अहं यत्किमपि अस्मि तत् सर्वं भगवान् जगन्नाथस्य अनुग्रहेण एव सम्भवम्। जीवने जयपराजयौ उभौ भवतः, किन्तु आवश्यकं यत् वयं परिश्रमं कदापि न परित्यजेम। तदा एव कदाचित् परिश्रमस्य फलम् अवश्यमेव प्राप्यते।

तया एतदपि उक्तं यत् ओडिशाराज्यस्य मुख्यमन्त्रिणा मोहनचरणमाझिना प्रदत्ता अभिनन्दना तस्यै गौरवस्य प्रेरणायाश्च विषयः अस्ति। मुख्यमन्त्री मोहनचरणमाझिना स्वस्य अभिनन्दनसन्देशे उक्तं यत् ज्योतिर्मयी नायक स्वप्रतिभया सम्पूर्णे देशे ओडिशाराज्यस्य नाम गौरवान्वितवती। तेन तस्याः एषा उपलब्धिः राज्यस्य गौरवविषयः इति कथयित्वा तस्याः उज्ज्वलभविष्यस्य शुभकामनाः प्रदत्ताः।

---------------

Hindusthan Samachar / Dheeraj Maithani