Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 27 जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य एक्स इत्यस्मिन् माध्यमे एकं सुभाषितं सामाजस्य मध्ये सदाचारस्य महत्त्वं रेखाङ्कयन् साझा कृतवान्। तेन उक्तं यत् शीलवान् जनः न केवलं समाजे सम्मानं प्राप्नोति, अपि तु सर्वविधदायित्वनिर्वहणाय अपि योग्यः मन्यते। प्रधानमन्त्री उत्तमशीलमेव स्थायिसफलतायाः, प्रभाविनेतृत्वस्य, विश्वासस्य च वास्तविकाधारशिलाम् इति अवदत्।
सुभाषितम्
शीलवान् पूजितो लोके शीलवान् साधुसम्मतः। शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥
प्रधानमन्त्री मोदी अवदत् यत् उत्तमशीलयुक्तः पुरुषः समाजे सम्मानं सज्जनानां च आदरं प्राप्नोति। प्रामाणिकता, विनयः, अनुशासितम् आचरणं च तादृशं जनं सर्वेषां दायित्वानां निर्वहणे योग्यं करोति।
तेन उक्तं यत् उत्कृष्टशीलयुक्तस्य व्यक्तित्वं प्रेरणादायकं भवति तथा तस्य आचरणम् अन्येषां कृते अनुकरणीयं भवति। प्रधानमन्त्री अवदत् यत् उत्तमशीलमेव स्थायिसफलतायाः, प्रभाविनेतृत्वस्य, दीर्घकालिकविश्वासस्य च दृढतमा आधारशिला अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani