भगवा इत्येषो ध्वजः जीवन-मृत्य्वोः ददाति संकेतम् : संजय हर्ष मिश्रः
लखनऊ, 27 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य राजधानी लखनऊनगरे स्थिते राष्ट्रधर्मकार्यालये सोमवासरे आयोजिते पुस्तकचर्चाकार्यक्रमे इतिहाससङ्कलनयोजनायाः अखिलभारतीयसहसङ्गठनसचिवः संजयहर्षमिश्रः अनेकाः महत्त्वपूर्णाः उपयोगिन्यः सूचनाः प्रदत्तवान्। कार्य
rashtradham


rashtradham


लखनऊ, 27 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य राजधानी लखनऊनगरे स्थिते राष्ट्रधर्मकार्यालये सोमवासरे आयोजिते पुस्तकचर्चाकार्यक्रमे इतिहाससङ्कलनयोजनायाः अखिलभारतीयसहसङ्गठनसचिवः संजयहर्षमिश्रः अनेकाः महत्त्वपूर्णाः उपयोगिन्यः सूचनाः प्रदत्तवान्। कार्यक्रमे भगवाध्वज इति पुस्तकमधिकृत्य चर्चा अभवत्। अस्य पुस्तकस्य लेखकः नारायणहरिपालकरः अस्ति।

तेन उक्तं यत् ध्वजाः अष्टविधाः भवन्ति। ध्वजानां महत्त्वं उपयोगं च विस्तरेण विवृण्वन् सः उक्तवान् यत् प्रायेण तेषाम् उपयोगः युद्धेषु भवति स्म। ध्वजः राज्यस्य भवति स्म, सेनापतेः तु पताका भवति स्म। मिश्रेण स्वामीरामतीर्थस्य उल्लेखः कृतः। तेन उक्तं यत् स्वामीरामतीर्थः वदति स्म यत् भगवाध्वजः जीवनमृत्योः उभयोः अपि सूचकः अस्ति। भगवाध्वजः एतस्य संकेतं ददाति यत् एतत् शरीरम् अन्ते मृत्तिकायां विलीनं भविष्यति। महाराणाप्रतापस्य शिवाजीमहाराजस्य च ध्वजः भगवावर्णीयः एव आसीत्।

तेन उक्तं यत् भारते सप्तसदस्ययुक्ता ध्वजसमितिः निर्मिता आसीत्। सा समितिः केसरियध्वजस्य स्वीकरणस्य सुझावं दत्तवती। समितेः मतम् आसीत् यत् एषः स्वतन्त्रः स्वकीयश्च प्रतिभाति। किन्तु पश्चात् महात्मागान्धिनः हस्तक्षेपानन्तरं त्रिवर्णध्वजः एव स्वीकृतः।

अस्यां चर्चायां राष्ट्रधर्मस्य प्रभारीनिदेशकः सर्वेशचन्द्रद्विवेदी, निदेशकः डा. ओमप्रकाशः, जयप्रकाशपाण्डेयः, के.के. वासः, अमितकुशवाहः, डा. सन्तोषकुमारतिवारी, डा. ए.पी. पाण्डेयः, बाबूलालशर्मा तथा अन्ये जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani