सीआरपीएफदलस्य 88तमायां वर्षगंथौ 212तमायां बटालियनवाहिन्यां सैनिक सम्मेलनम् आयोजितम्
सुकमा, 27 जुलाईमासः (हि.स.)। केन्द्रीयरिजर्वपुलिसबलस्य द्विशतद्वादशतमा बटालियनपरिसरे सोमवासरे बलस्य अष्टाशीतितमः स्थापनादिवसः आचरितः। कार्यक्रमस्य आरम्भः अधिकारिभिः जवानैश्च बलिदानिभ्यः श्रद्धाञ्जलिं समर्प्य कृतः। तदनन्तरं क्वार्टरगार्डस्थले कमाण्ड
सीआरपीएफ की 88 वीं वर्षगांठ मनाई गई, सैनिक सम्मेलन का हुआ आयोजन


सुकमा, 27 जुलाईमासः (हि.स.)। केन्द्रीयरिजर्वपुलिसबलस्य द्विशतद्वादशतमा बटालियनपरिसरे सोमवासरे बलस्य अष्टाशीतितमः स्थापनादिवसः आचरितः। कार्यक्रमस्य आरम्भः अधिकारिभिः जवानैश्च बलिदानिभ्यः श्रद्धाञ्जलिं समर्प्य कृतः। तदनन्तरं क्वार्टरगार्डस्थले कमाण्डेण्ट एओडी शमीमुद्दीनशेखः सलामीम् अगृह्णात् तथा केन्द्रीयरिजर्वपुलिसबलस्य उपलब्धीनां गौरवशालिपरम्पराणां च विषये सूचनाम् अददात्।

अस्मिन्नवसरे विशेषसैनिकसम्मेलनस्य आयोजनम् अभवत्, यस्मिन् जवानान् केन्द्रीयरिजर्वपुलिसबलस्य विविधाभिः कल्याणकारीयोजनाभिः परिचितान् कृतवन्तः। कार्यक्रमकाले मिष्टान्नवितरणमपि कृतम्। वर्षगांठसमारोहस्य अन्तर्गतं क्रीडाप्रतियोगितानां सांस्कृतिककार्यक्रमाणां सामूहिकभोजनस्य च आयोजनम् अभवत्।

कार्यक्रमस्य आयोजनं कमाण्डेण्ट एओडी शमीमुद्दीनशेखस्य निर्देशनाधीनम् अभवत्। अस्मिन्नवसरे द्वितीयकमानाधिकारी परिचालनविभागस्य दिनेशकुमारः, उपकमाण्डेण्ट गौरवशर्मा, सहायककमाण्डेण्ट राकेशलामा, अन्ये सहायककमाण्डेण्टाः, सर्वे अधीनस्थाधिकारिणः जवानाश्च समुपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani