रजतपदकविजयाय प्रधानमन्त्रिणा गृहमन्त्रिणा च राजा-मुथुपाण्डी अभिनन्दितः
नवदेहली, २८ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री सहकारितामन्त्री च अमितशाहः तथा अन्येऽपि बहवः नेतारः सोमवासरे राष्ट्रमण्डलक्रीडा-२०२६ मध्ये रजतपदक-विजयाय राजा-मुथुपाण्डिनं हार्दिकम् अभिनन्दनम् अकुर्वन्। ग्लास्गो-नगर्यां आयोजित
भारतीय भारोत्तोलक राजा मुथुपांडी


नवदेहली, २८ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री सहकारितामन्त्री च अमितशाहः तथा अन्येऽपि बहवः नेतारः सोमवासरे राष्ट्रमण्डलक्रीडा-२०२६ मध्ये रजतपदक-विजयाय राजा-मुथुपाण्डिनं हार्दिकम् अभिनन्दनम् अकुर्वन्।

ग्लास्गो-नगर्यां आयोजितासु राष्ट्रमण्डल-क्रीडासु पुरुषाणां ६५ किलोग्राम-भारवर्गे रजतपदकं विजित्य राजा-मुथुपाण्डिनम् अभिनन्दयन् प्रधानमन्त्री एक्स-माध्यमे अलिखत्— तस्य सफलतया प्रत्येकं भारतीयः हृष्टः गौरवान्वितश्च अस्ति। तस्य भावि-प्रयत्नानां सफलतायै मम हार्दिकाः शुभकामनाः।

अमितशाहः अवदत्— राष्ट्रमण्डलक्रीडासु पुरुषाणां ६५ किलोग्राम-भारवर्गे रजतपदक-विजयाय मुथुपाण्डिनं हार्दिकम् अभिनन्दामि। त्वया अस्माकं त्रिरङ्ग-ध्वजस्य गौरवं वर्धितम्। त्वं सदा विजयी भूयाः।

केन्द्रीय-युवकार्य-क्रीडामन्त्री डॉ. मन-सुख-माण्डवीयः अवदत् यत् एषः भारतीय-भारोत्तोलनस्य गौरवमयः क्षणः अस्ति। पुरुषाणां ६५ किलोग्राम-भारोत्तोलन-स्पर्धायां रजतपदकविजयाय राजा-मुथुपाण्डिनं सः हार्दिकम् अभिनन्दितवान्।

रक्षामन्त्री राजनाथसिंहः अवदत् यत् एतत् उत्कृष्टं प्रदर्शनं तस्य अनुशासनस्य, दृढनिश्चयस्य, अविचलसमर्पणस्य च फलम् अस्ति। सम्पूर्णः देशः तस्य एतस्याः उपलब्धेः उत्सवं आचरति। तस्य भावि-प्रयत्नेषु अधिकसफलतायै शुभकामनाः।

उल्लेखनीयं यत् राजा-मुथुपाण्डी राष्ट्रमण्डलक्रीडासु उत्कृष्टं प्रदर्शनं कृत्वा पुरुषाणां ६५ किलोग्राम-भारवर्गे रजत-पदकं विजितवान्। शनिवासरे सम्पन्नायां स्पर्धायां सः समग्रतया २८६ किलोग्राम-भारम् उद्वह्य द्वितीयं स्थानं प्राप्तवान् तथा च भारताय क्रीडानां द्वितीयं रजतपदकं दिलितवान्।

Hindusthan Samachar / Divya Ranjan