Enter your Email Address to subscribe to our newsletters

सहरसा, 27 जुलाईमासः (हि.स.)।
सङ्गीतायन फाउण्डेशनसंस्थानस्य तत्त्वावधाने विद्यापतिभवने चेतनासमितेः सभागारे मिथिलायां दारिद्र्यम् कारणानि निवारणोपायाश्च इति विषये सोमवासरे परिसंवादस्य आयोजनम् अभवत्। कार्यक्रमस्य अध्यक्षतां दूरसञ्चारविभागस्य पूर्वनिदेशकः राष्ट्रपतिप्रधानमन्त्रिभ्यां सम्मानितः डा. एन. पी. सेनः अकरोत्। मञ्चसञ्चालनं चेतनासमितेः सचिवः जयदेवमिश्रः अकरोत्। उपस्थितैः अतिथिभिः स्वस्वविचाराः प्रस्तुताः। मिथिलायाः दारिद्र्यनिवारणाय तस्मिन् विषये च प्रचलितप्रयत्नानां सम्बन्धे स्वस्वसुझावाः अपि प्रदत्ताः। तेषु डा. एन. पी. सेनः, चेतनासमितेः अध्यक्षः विवेकानन्दझा, पूर्वप्रशासनाधिकारी विजयप्रकाशः, डा. रत्नेश्वरमिश्रः, पूर्वमन्त्री विनोदनारायणझा, पूर्वमन्त्री राजकुमारपूर्वे, पूर्वमन्त्री समीरकुमारमहासेठः, पूर्वमन्त्री डा. मदनमोहनझा च प्रमुखाः आसन्।
रोहितकुमारः तथा डा. दीप्तिकुमारी मिथिलायाः दारिद्र्यस्य पश्चादवस्थायाश्च विषये स्वीयानि तथ्याङ्कानि प्रस्तुतवन्तौ। सङ्गीतायनफाउण्डेशनस्य महासचिवः अवनिन्द्रठाकुरः समागतानाम् अतिथीनां वक्तॄणां श्रोतॄणां च धन्यवादम् अकरोत् तथा परिसंवादस्य उद्देश्यम् अपि विवृणोत्। कार्यक्रमस्य संयोजकः अंशुमनसिंहः आधुनिकविकासप्रतिमानस्य विषये सर्वेषां ध्यानम् आकर्षितवान्। विशिष्टवक्तृषु अखिलभारतीयमिथिलाराज्यसङ्घर्षसमितेः राष्ट्रियप्रवक्ता माध्यमप्रभारी अभियन्ता शिशिरकुमारझा, डा. अशोकअविचलः, डा. प्रेमकान्तचौधरी, मदनकुमारझा च प्रमुखाः आसन्।
सर्वैः वक्तृभिः पृथक् मिथिलाराज्यस्य आवश्यकता प्रतिपादिता। अभियन्ता झा उक्तवान् यत् स्वातन्त्र्यप्राप्तेः नवसप्ततिवर्षेषु सर्वैः राजनैतिकदलैः बिहारराज्ये शासनं कृतम्, किन्तु मिथिलायाः समुचितचिन्ता कदापि न कृता। उत्तरभारतस्य एकमात्रा संवैधानिकी भाषा मैथिली अपि समुचितान् अधिकारान् न प्राप्तवती। मिथिलायाः अभ्युदयाय मैथिलैः मैथिलानां कृते मैथिलानामेव शासनम् एकमात्रं समाधानम् अस्ति। पृथक् मिथिलाराज्यमेव मगधीशासनात् मुक्तेः एकमात्रः विकल्पः अस्ति।
Hindusthan Samachar / Dheeraj Maithani