राष्ट्रमंडलक्रीडाः 2026: ज्ञानेश्वरी यादवः अजयत् रजतं, भारतस्य पदकानां संख्या संजाता पञ्च
ग्लासगो, 27 जुलाईमासः (हि.स.)। राष्ट्रमण्डलक्रीडा २०२६ स्पर्धायां सोमवासरे भारतस्य युवा भारोत्तोलिका ज्ञानेश्वरीयादवा उत्कृष्टं प्रदर्शनं कृत्वा महिलानां त्रिपञ्चाशत्किलोग्रामभारवर्गे रजतपदकं विजितवती। खेलो इण्डिया योजनायाः माध्यमेन विकसितेयं प्र
ज्ञानेश्वरी यादव


ग्लासगो, 27 जुलाईमासः (हि.स.)।

राष्ट्रमण्डलक्रीडा २०२६ स्पर्धायां सोमवासरे भारतस्य युवा भारोत्तोलिका ज्ञानेश्वरीयादवा उत्कृष्टं प्रदर्शनं कृत्वा महिलानां त्रिपञ्चाशत्किलोग्रामभारवर्गे रजतपदकं विजितवती।

खेलो इण्डिया योजनायाः माध्यमेन विकसितेयं प्रतिभासम्पन्ना क्रीडिका कुलम् १९९ किलोग्रामभारम् स्नैचस्पर्धायाम् ८८ किलोग्राम तथा क्लीनएण्डजर्कस्पर्धायाम् १११ किलोग्राम उत्थाप्य न केवलं रजतपदकं प्राप्तवती, अपितु कुलभारे तथा क्लीनएण्डजर्कस्पर्धायां स्वकीयं व्यक्तिगतश्रेष्ठप्रदर्शनम् अपि स्थापितवती। एतत् राष्ट्रमण्डलक्रीडासु भारतस्य पञ्चमं पदकम् अस्ति।

ज्ञानेश्वरीयादवा स्नैचस्पर्धायाम् ८२, ८५ तथा ८८ किलोग्रामभारस्य त्रयः प्रयत्नाः सफलतया सम्पन्नवती तथा द्वितीयस्थानं प्राप्य क्लीनएण्डजर्कचरणं प्रविष्टवती। तस्याः अग्रे केवलं नाइजीरियादेशस्य ओनोमेडिडीह आसीत्, या सम्पूर्णस्पर्धायां उत्कृष्टलयं धारितवती।

क्लीनएण्डजर्कस्पर्धायां ज्ञानेश्वरीयादवा १०३ किलोग्रामभारेण आरम्भं कृतवती, यदा डिडीह १०५ किलोग्रामभारम् उत्थापितवती। भारतीयक्रीडिका द्वितीयप्रयत्ने १०७ किलोग्रामभारं सफलतया उत्थाप्य प्रतिस्पर्धां सशक्तां कृतवती, किन्तु नाइजीरियादेशीयभारोत्तोलिका ११० किलोग्रामभारम् उत्थाप्य स्वस्य अग्रस्थानं धारितवती।

स्पर्धायाः अत्यन्तरोमाञ्चकरः क्षणः अन्तिमप्रयत्ने दृष्टः। ज्ञानेश्वरीयादवा १११ किलोग्रामभारं सफलतया उत्थाप्य स्वकीयं जीवनस्य श्रेष्ठतमं प्रदर्शनं कृतवती तथा कुलम् १९९ किलोग्रामभारेण रजतपदकं प्रायः सुनिश्चितवती। अनन्तरं डिडीह ११३ किलोग्रामभारम् उत्थाप्य राष्ट्रमण्डलक्रीडायाः तथा राष्ट्रमण्डलचैम्पियनशिपस्य उभयोः नूतनाभिलेखौ स्थापितवती तथा स्वर्णपदकं विजितवती।

ज्ञानेश्वर्याः एतत् प्रदर्शनं भारतीयभारोत्तोलनक्षेत्रस्य कृते महती उपलब्धिः मन्यते। अनया सिद्धीकृतं यत् भारतस्य नवपीढीयाः क्रीडकाः अन्तरराष्ट्रीयमञ्चे निरन्तरं स्वकीयां सुदृढां परिचितिं निर्मान्ति।

भारतीयभारोत्तोलनदलम् अस्मिन् राष्ट्रमण्डलक्रीडायां अद्यावधि प्रभावशालि प्रदर्शनं कृतवत्। अस्मात् पूर्वं मीराबाईचानू निरन्तरं तृतीयवारं राष्ट्रमण्डलक्रीडायाः स्वर्णपदकं विजित्य इतिहासं निर्मितवती, यदा राजामुथुपाण्डी तथा ऋषिकान्तसिंहः रजतपदके प्राप्तवन्तौ।

डोपिङ्गसम्बद्धकारणानां निमित्तं स्पर्धायाः पूर्वं भारतीयदलस्य सदस्यसङ्ख्या षोडशतः एकादशपर्यन्तं न्यूनीकृता आसीत्, तथापि भारतीयभारोत्तोलकाः उत्कृष्टप्रदर्शनं कृत्वा पदकानां वर्षामिव अकुर्वन्।

भारतः राष्ट्रमण्डलक्रीडायाः इतिहासे भारोत्तोलने अत्यन्तसफलदलानां मध्ये गण्यते। वर्षेषु १९९०, २००२, २०१८ तथा २०२२ भारतम् अस्मिन् क्रीडाक्षेत्रे श्रेष्ठप्रदर्शनं कुर्वतां देशानां मध्ये स्थानं प्राप्तवान्।

बर्मिङ्घम् २०२२ स्पर्धायां भारतेन भारोत्तोलने दश पदकानि विजित्य पदकताले प्रथमस्थानं प्राप्तम्। ग्लास्गोनगरे अपि भारतीयक्रीडकाभ्यः तथैव प्रभावशालिप्रदर्शनस्य अपेक्षा क्रियते।

---------------

Hindusthan Samachar / Dheeraj Maithani