न खिद्यतां, प्रत्येकं उचितसमस्यायाः निष्पक्षतया गमिष्यति समाधानम् : मुख्यमंत्री
-मुख्यमंत्री योगी आदित्यनाथः सोमवासरे प्रातः ‘जनता दर्शने’ दापितो विश्वासः लखनऊ, 27 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगीआदित्यनाथः सोमवासरे जनतादर्शनकार्यक्रमम् अकरोत्। मुख्यमन्त्री विभिन्नजनपदेभ्यः आगतान् प्रत्येकं जनं समागत्य तेषां समस्याः अशृण
जनता दर्शन में लोगों की सस्याएं सुनते मुख्यमंत्री योगी


-मुख्यमंत्री योगी आदित्यनाथः सोमवासरे प्रातः ‘जनता दर्शने’ दापितो विश्वासः

लखनऊ, 27 जुलाईमासः (हि.स.)। मुख्यमन्त्री योगीआदित्यनाथः सोमवासरे जनतादर्शनकार्यक्रमम् अकरोत्। मुख्यमन्त्री विभिन्नजनपदेभ्यः आगतान् प्रत्येकं जनं समागत्य तेषां समस्याः अशृणोत् तथा च अधिकारिणः समयबद्धनिस्तारणस्य निर्देशान् अदात्। मुख्यमन्त्री अत्र समागतान् जनान् उक्तवान् यत् भवन्तः कदापि चिन्तिताः मा भवन्तु। शासनं प्रत्येकस्य उचितसमस्यायाः निष्पक्षसमाधानं कारयिष्यति। मुख्यमन्त्री अभिभावकैः सह आगतैः बालकैः सह अपि संवादम् अकरोत्। तेषां अध्ययनस्य अभिरुचेः च विषये अपि अपृच्छत्। ततः सर्वेभ्यः चाकलेट् अपि प्रदत्तवान्।

मुख्यमन्त्री योगीआदित्यनाथः जनतादर्शनकार्यक्रमे जनैः सह मिलित्वा तान् आश्वासयन् उक्तवान् यत् चिन्ता न कर्तव्या। सर्वेषां उचितसमस्यासु प्रभावी कार्यवाही कारयिष्यते। मुख्यमन्त्री उपस्थितान् अधिकारिणः निर्देशितवान् यत् अत्र प्राप्तानां शिकायतानां निस्तारणं समस्यासमाधानं च शीघ्रतया क्रियताम्।

विविधप्रकरणसम्बद्धसमस्यानां निस्तारणार्थं तेन सम्बद्धान् प्रशासनिकपुलिसाधिकारिणः प्रति प्रार्थनापत्राणि प्रेष्य निर्देशाः प्रदत्ताः यत् सर्वेषां प्रकरणानां निस्तारणं निष्पक्षं समयबद्धं च भवेत्।

अपराधैः भूमेः बलात् आधिपत्यग्रहणसम्बद्धशिकायतासु मुख्यमन्त्री योगीआदित्यनाथः पुलिसाधिकारिभ्यः कठोरकार्यवाह्याः निर्देशान् अदात्। उपचारार्थम् आर्थिकसहायतासम्बद्धेषु प्रार्थनापत्रेषु च तेन चिकित्सालयानाम् एस्टिमेटनिर्माणप्रक्रियां शीघ्रं सम्पन्नां कर्तुम् उक्तम्। योगी जनान् आश्वासितवान् यत् एस्टिमेट् प्राप्तमात्रेण शासनं त्वरितमेव धनराशिं प्रदास्यति।

जनतादर्शनकार्यक्रमे अभिभावकैः सह केचन बालकाः अपि आगताः आसन्। मुख्यमन्त्री तान् बालकान् स्नेहेन आलिङ्ग्य तेषां अध्ययनस्य अभिरुचेः च विषये अपि अपृच्छत्। ततः चाकलेट् प्रदाय आशीर्वादम् अपि अदात्। मुख्यमन्त्री बालकान् उक्तवान् यत् एकाग्रचित्तेन अध्ययनं कुर्वन्तु। तेन सह अन्यासु अपि विधासु यथा क्रीडा, गीतसङ्गीतम्, कला, नाट्यम् इत्यादिषु प्रशिक्षणं प्राप्य स्वान्तर्निहितां प्रतिभां विकसितवन्तः भवतु।

Hindusthan Samachar / Dheeraj Maithani