गुरु पूर्णिमायां मुख्यमंत्री योगी अलिखत् पत्रं, गुरोः अवबोधितं महत्वम्
लखनऊ, 27 जुलाईमासः (हि. स.)। मुख्यमन्त्री योगीआदित्यनाथः गुरुपूर्णिमापर्वणः अवसरे प्रदेशस्य जनतां प्रति पत्रं लिखितवान्। तेन गुरुपूर्णिमापर्वणः महत्त्वं विवृण्वन् २९ जुलैदिने आगामिन्याः गुरुपूर्णिमायाः पावनपर्वणः शुभकामनाः प्रदत्ताः। मुख्यमन्त्री
मुख्यमंत्री ने लिखी चिठ्ठी


लखनऊ, 27 जुलाईमासः (हि. स.)।

मुख्यमन्त्री योगीआदित्यनाथः गुरुपूर्णिमापर्वणः अवसरे प्रदेशस्य जनतां प्रति पत्रं लिखितवान्। तेन गुरुपूर्णिमापर्वणः महत्त्वं विवृण्वन् २९ जुलैदिने आगामिन्याः गुरुपूर्णिमायाः पावनपर्वणः शुभकामनाः प्रदत्ताः। मुख्यमन्त्री गुरूणाम् आदर्शान् जीवने आत्मसात्कर्तुम् आह्वानं कृत्वा उक्तवान् यत् गुरोः सम्मानः एव विकसितसमाजस्य विकसितप्रदेशस्य च आधारशिला अस्ति।

मुख्यमन्त्री योगीआदित्यनाथः उक्तवान् यत् गुरुपूर्णिमा गुरुजनानां प्रति श्रद्धायाः सम्मानस्य कृतज्ञतायाश्च पर्व अस्ति। गुरुपूर्णिमा महर्षेः वेदव्यासस्य स्मृत्यर्थं आचर्यते।

तेन उक्तं यत् बौद्धपरम्परायां गुरुपूर्णिमा भगवानः बुद्धस्य प्रथमोपदेशस्य धर्मचक्रप्रवर्तनस्य च स्मृतिदिवसरूपेण आचर्यते।

जैनपरम्परायां गुरुपूर्णिमायाः सम्बन्धः गौतमस्वामिनः ज्ञानदीक्षाप्रसङ्गेन अस्ति। सिखपरम्परायामपि गुरुवाण्याः सर्वोच्चं स्थानं विद्यते।

मुख्यमन्त्री योगी उक्तवान् यत् गुरुपूर्णिमा सर्वासु परम्परासु गुरोः ज्ञानस्य आध्यात्मिकचेतनायाश्च प्रतीकरूपं पर्व अस्ति। गुरुशिष्यपरम्परा अस्माकं सनातनसंस्कृतेः अमूल्या धरोहरः अस्ति। श्रीरामः गुरोः वशिष्ठात् श्रीकृष्णः गुरोः सान्दीपनितः च ज्ञानं प्राप्तवान्। यत्र गुरोः सम्मानः भवति तत्रैव समाजः उन्नतिं प्राप्नोति।

मुख्यमन्त्री उक्तवान् यत् गतनववर्षेषु शिक्षकरक्षणं शिक्षकैः सशक्तीकरणं च शासनस्य सर्वोच्चप्राथमिकता आसीत्। मुख्यमन्त्री शिक्षककैशलेसचिकित्सायोजनया लक्षशः शिक्षकाः लाभान्विताः भवन्ति। षष्टिलक्षाधिकाः शिक्षकाः शिक्षणेतरकर्मचारिणः आश्रिताश्च अस्याः योजनायाः लाभं प्राप्स्यन्ति। सप्तलक्षपञ्चाशत्सहस्राधिकाः विश्वविद्यालयमहाविद्यालयशिक्षकाः अपि अस्यां योजनायां समावेशिताः सन्ति। शिक्षकाणां कर्मचारिणां च कृते त्रिकोटिपर्यन्तं सामाजिकसुरक्षावीमावरणं प्रदत्तम् अस्ति।

गुरुः केवलं शिक्षां न ददाति अपितु जीवनाय सम्यग्दिशामपि प्रददाति। मुख्यमन्त्री गुरूणाम् आदर्शान् जीवने आत्मसात्कर्तुम् आह्वानं कृत्वा उक्तवान् यत् गुरोः सम्मानः एव विकसितसमाजस्य विकसितप्रदेशस्य च आधारशिला अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani