Enter your Email Address to subscribe to our newsletters

वाराणसी, 27 जुलाईमासः (हि. स.)।
हिमालयस्य पर्वतीयप्रदेशेषु तीव्रवृष्टेः कारणेन गङ्गानद्याः जलस्तरः वर्धितः अस्ति। सोमवासरे अस्य प्रभावः वाराणसीनगरे अपि दृश्यते। केन्द्रीयजलआयोगस्य प्रतिवेदनं प्रकाशिते सति घाटतीरे निवसन्तः जनाः सावधानीम् आचरन्ति। जलपुलिसदलम्, एनडीआरएफ दलम्, स्थानीयपुलिसदलस्य सदस्याश्च जनान् सावधानतां पालयितुम् उपदिशन्ति।
केन्द्रीयजलआयोगस्य मिडल गङ्गा डिवीजनद्वारा सोमवासरे गङ्गानद्याः जलस्तरस्य वर्तमानस्थितिः प्रकाशिताऽभवत्। सोमवासरे प्रातः एकादशवादनपर्यन्तं वाराणस्यां गङ्गानद्याः जलस्तरः ६१.२८ मीटर इति परिमितः अभवत्। सामान्यतः गङ्गानद्याः जलस्तरः प्रतिघण्टं प्रायः विंशतिमिलीमीटरपरिमाणेन वर्धते। अद्यापि गङ्गानद्याः जलस्तरः संकटचिह्नात् बहु अधः एव वर्तते।
गङ्गानद्याः वर्धमानजलस्तरस्य कारणेन वाराणस्यां घाटेषु स्थापितानां मन्दिराणां देहलीपर्यन्तं जलम् आगतम् अस्ति। अनेन प्रतिदिनं स्नानदर्शनपूजनार्थम् आगच्छन्तः स्थानीयजनाः कठिनतां अनुभवन्ति। भभुआपाण्डेयघाटे निवसन् रविपाण्डेयः अवदत् यत् प्रतिवर्षमिव अस्मिन् वर्षे अपि वर्षाकाले गङ्गानद्याः जलस्तरः वर्धितः अस्ति, अतः स्नानस्थानं परिवर्तितम्। स्नानार्थिनः किञ्चित् उपरिभागे गत्वा स्नानं कुर्वन्ति। मन्दिराणां दर्शनं तु बहिःस्थिताः एव कुर्वन्ति।
शिवगङ्गादैनिकप्रभातफेरीसङ्घटनस्य सङ्गठनमन्त्री नरेन्द्रनाथः अवदत् यत् तेषां प्रभातफेरीसदस्याः सर्वे अहिल्याबाईघाटे स्नानं कुर्वन्ति। गङ्गानद्याः जलस्तरवृद्धेः कारणेन ते अधुना उपरिस्थितचौकीसमीपे एव स्नानं कुर्वन्ति। तस्याः चौक्याः स्थानमपि अधुना परिवर्त्यते।
वाराणस्यां घाटतीरं प्रति आगच्छतां पर्यटकानां कृते नमोघाटः प्रमुखं पर्यटनकेन्द्रम् अस्ति। गङ्गानद्याः जलस्तरवृद्धेः कारणेन नमोघाटे अपि विविधक्रियाकलापेषु प्रभावः दृश्यते। आगामिदिनेषु घाटात् अन्यघाटं प्रति आवागमनम् अपि निरोद्धुं शक्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani