Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, २७ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदस्य वरिष्ठा लोकगायिका सरोज-वर्मा काशी-हिन्दू-विश्वविद्यालयस्य सङ्गीत-रङ्गकला-संकायस्य पक्षतः प्रदत्तेन प्रतिष्ठितेन ‘कौस्तुभ-रत्न-सम्मानेन’ सम्मानिता। एतत् सम्मानं त्रिदिवसीय-लोकगीत-कार्यशालायाः लोकस्य रङ्गाः इत्यस्याः समापनावसरे बीएचयू-स्थिते पण्डित-ओङ्कारनाथ-ठाकुर-सभागारे सोमवासरे आयोजिते समारोहे प्रदत्तम्।
सङ्गीत-रङ्गकला-संकायेन स्थापितेन कौस्तुभ-रत्न-सम्मानेन तेषां देशस्य प्रतिष्ठितानां कलाकाराणां सम्मानं क्रियते, ये स्वकलया भारतीय-सांस्कृतिक-धरोहरस्य संरक्षणे संवर्धने च उल्लेखनीयं योगदानं दत्तवन्तः। अस्याः परम्परायाः अन्तर्गतं अस्मिन् वर्षे सरोज-वर्मा अपि एतेन सम्मानेन अलङ्कृता।
सम्मानं प्राप्य सरोज-वर्मा अवदत् यत् काशी-हिन्दू-विश्वविद्यालयस्य सङ्गीत-संकायस्य विद्यार्थिनः सम्पूर्णोत्साहेन समर्पणभावेन च कार्यशालायां सहभागिनः अभवन्। तैः प्रायः शत-प्रतिशत-उपस्थित्या कार्यशालायां सहभागिता कृता तथा समापनसमारोहे कार्यशालायां अधीतानां लोकगीतानां अत्यन्तं सुन्दरं प्रस्तुतीकरणम् अपि कृतम्।
सरोज-वर्मा पुनरवदत् यत् युवावंशं लोकसङ्गीतं प्रति एषः अनुरागः अस्य सूचकः अस्ति यत् यदि एवंरूपेण लोकगीतानां संरक्षण-संवर्धनयोः प्रयासाः निरन्तरं भविष्यन्ति, तर्हि अस्माकं लोकसङ्गीत-परम्परा कदापि न विलुप्स्यति तथा तस्याः भविष्यं अत्यन्तम् उज्ज्वलं भविष्यति।
Hindusthan Samachar / Divya Ranjan