Enter your Email Address to subscribe to our newsletters

- संत शिरोमणेर्गुरु रविदासस्य 650 तमाय प्रकाशपर्व पञ्चभ्यः महद्भ्यः कार्यक्रमेभ्यः 20 फरवरी यावत् आयाेजिष्यते
वाराणसी, 27 जुलाईमासः(हि. स.)।
भारतीयजनतापक्षस्य अनुसूचितजातिमोर्चादलस्य राष्ट्रियाध्यक्षः लालसिंहार्यः तथा उत्तरप्रदेशशासनस्य समाजकल्याणमन्त्री असीमअरुणः सोमवासरे वाराणस्याः सर्किटहाउसे आयोजितायां पत्रकारवार्तायाम् उक्तवन्तौ यत् स्वातन्त्र्यप्राप्तेः अनन्तरं सन्तानां महापुरुषाणां च कृतित्वं यथार्हं सामान्यजनानां मध्ये न प्रसारितम्। सिकन्दरस्य समक्षम् अपि ये कदापि न नमितवन्तः तादृशस्य सन्तशिरोमणेः गुरुरविदासस्य षट्शतपञ्चाशत्तमप्रकाशपर्वणः शुभावसरे वाराणस्यां तस्य जन्मस्थल्यां भव्यरूपेण सामाजिकसमरसताकार्यक्रमः आयोजयिष्यते। जुलैमासस्य नवविंशतितमे दिने गुरुरविदासस्य जन्मस्थले आयोजिते कार्यक्रमे भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः मुख्यातिथिरूपेण, पूज्यः सन्तः निरञ्जनदासः तथा मुख्यमन्त्री योगीआदित्यनाथः उपस्थिताः भविष्यन्ति।
ताभ्याम् उक्तं यत् कार्यक्रमार्थं जुलाईमासस्य अष्टाविंशतितमे दिने टोलीसदस्याः आगमिष्यन्ति। तदनन्तरं कलशान् गृहीत्वा यात्रा प्रारभिष्यते। एकत्रिंशदधिकशतं कलशान् गृहीत्वा यात्रा देशस्य सर्वेषु प्रदेशेषु गमिष्यति। अद्य रात्रेः आरभ्य टोलीसदस्यानाम् आगमनम् आरभिष्यते। जुलैमासस्य नवविंशतितमे दिने देशस्य एकपञ्चाशत्सहस्रस्थानेषु सन्तरविदासस्य नाम्ना दीपप्रज्वलनकार्यक्रमः भविष्यति। रविदासस्मारके अपि दीपप्रज्वलनं भविष्यति, यस्मिन् प्रमुखजनानाम् उपस्थितिः भविष्यति। तदनन्तरं कलशाः विभिन्नराज्यानां मुख्यालयेषु प्राप्स्यन्ति तथा उत्तरप्रदेशे अष्टपञ्चाशत् कलशाः प्रेषयिष्यन्ते।
ताभ्याम् सूचितं यत् जनपदे कार्यक्रमस्य सज्जतां प्रति कार्यशाला प्रचलति। जुलाईमासस्य नवविंशतितमे दिनात् सन्तसम्पर्काभियानम् अपि प्रारभिष्यते। अक्टोबरमासस्य पञ्चमदिनात् नवम्बरमासस्य पञ्चमदिनपर्यन्तं गुरुरविदासयात्रा प्रारभिष्यते। यात्रा पञ्जाबतः जम्मू, देहली, हरियाणा च अतिक्रम्य एकमासानन्तरम् उत्तरप्रदेशे समाप्तिं गमिष्यति। तथैव नवम्बरमासस्य षड्विंशतितमे दिनात् अनुसूचितजातीयविद्यार्थिनां छात्रावासेषु सम्पर्काभियानम् आरभिष्यते। गुरुरविदासजयन्तीपर्यन्तं पञ्च प्रमुखकार्यक्रमाः विंशतितमे फेब्रुवरीदिनपर्यन्तं सम्पन्नाः भविष्यन्ति। विंशतितमे फेब्रुवरीदिने एतेषां कार्यक्रमाणां समापनम् भविष्यति। अस्मिन्नवसरे राष्ट्रियमहामन्त्री तरुणचुघः, प्रदेशाध्यक्षः पङ्कजचौधरी, सङ्गठनमहामन्त्री धर्मपालः तथा प्रदेशशासनस्य अन्ये प्रमुखजनाः अपि उपस्थिताः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani