उत्तर प्रदेशे सुप्त टीबी रोगिणां महासंघः, परिशीलनं चिकित्सकीयपरामर्शः च आवश्यकः
राष्ट्रियतपेदिकप्रसारसर्वेक्षणे ज्ञातं यत् जीवाणुपरीक्षणेन पुष्टेषु तपेदिकरोगप्रकरणेषु द्विपञ्चाशत्प्रतिशतेषु किमपि लक्षणं न दृश्यते, तथापि तपेदिकरोगस्य सम्भावना वर्तते। यदि शरीरस्य रोगप्रतिरोधकशक्तिः न्यूना अस्ति तर्हि समीपस्थे स्वास्थ्यकेन्द्रे
राष्ट्रीय क्षय उन्मूलन कार्यक्रम


राष्ट्रियतपेदिकप्रसारसर्वेक्षणे ज्ञातं यत् जीवाणुपरीक्षणेन पुष्टेषु तपेदिकरोगप्रकरणेषु द्विपञ्चाशत्प्रतिशतेषु किमपि लक्षणं न दृश्यते, तथापि तपेदिकरोगस्य सम्भावना वर्तते।

यदि शरीरस्य रोगप्रतिरोधकशक्तिः न्यूना अस्ति तर्हि समीपस्थे स्वास्थ्यकेन्द्रे अवश्यं परीक्षणं कारयन्तु।

लखनऊ, २७ जुलाईमासः (हि.स.)।

उत्तरप्रदेशे तपेदिकरोगनिर्मूलनस्य दिशि द्रुतगत्या कार्यं प्रचलति, किन्तु अस्य रोगस्य एकः पक्षः अस्ति यस्मात् अधिकांशजनाः अनभिज्ञाः सन्ति। विशेषज्ञानां मते प्रदेशस्य प्रायः अर्धजनसङ्ख्या लक्षणरहितेन अथवा सुप्ततपेदिकसंक्रमणेन प्रभाविताः सन्ति। अस्य अर्थः न यत् एते सर्वे तपेदिकरोगिणः सन्ति, अपितु तेषां शरीरे तपेदिकजीवाणवः सन्ति, ये सम्प्रति निष्क्रियावस्थायां सन्तः किमपि लक्षणं न जनयन्ति।

भारते अर्वाचीने राष्ट्रियतपेदिकप्रसारसर्वेक्षणे ज्ञातं यत् जीवाणुपरीक्षणेन पुष्टेषु तपेदिकरोगप्रकरणेषु द्विपञ्चाशत्प्रतिशतेषु किमपि लक्षणं नासीत्, सप्तदशप्रतिशतेषु तु लक्षणानि आसन्, किन्तु रोगिभिः अद्यापि उपचारः न प्रारब्धः। सिविलचिकित्सालयस्य उरोरोगविशेषज्ञः डा. आशुतोषदूबे अवदत् यत् सुप्ततपेदिकसंक्रमणेन पीडितस्य व्यक्तेः न कासः भवति, न ज्वरः, न च शरीरभारह्रासादयः लक्षणाः दृश्यन्ते। एतादृशाः जनाः सामान्यजीवनं यापयन्ति, अन्येषां प्रति संक्रमणमपि न प्रसारयन्ति। किन्तु यदि केनचित् कारणेन तेषां रोगप्रतिरोधकशक्तिः दुर्बला भवेत्, यथा मधुमेहः, कुपोषणम्, एचआईवी संक्रमणम्, कर्कटरोगः, धूम्रपानम् अथवा वृद्धावस्था, तर्हि एतदेव निष्क्रियसंक्रमणं सक्रियतपेदिकरोगे परिणमितुं शक्नोति।

विशेषज्ञानां मते यदि कस्यचित् व्यक्तेः सक्रियतपेदिकरोगिणा सह दीर्घकालं सम्पर्कः आसीत् अथवा सः तादृशे वर्गे अन्तर्भवति यत्र संक्रमणस्य सम्भावना अधिका भवति, तर्हि चिकित्सकस्य परामर्शेन परीक्षणं आवश्यकतायां च तपेदिकनिवारकचिकित्सा स्वीकर्तुं शक्यते। अनेन भविष्ये सक्रियतपेदिकरोगस्य सम्भावना बहुधा न्यूनीकर्तुं शक्यते।

राष्ट्रियक्षयनिर्मूलनकार्यक्रमस्य अन्तर्गतं शासनं सक्रियतपेदिकरोगिणां परिचयं परीक्षणं निःशुल्कोपचारं च करोति। तेषां समीपसम्पर्के निवसतां जनानामपि परीक्षणं क्रियते। बालकेषु, एचआईवीसंक्रमितेषु व्यक्तिषु, अन्येषु च उच्चसङ्कटसमूहेषु विशेषध्यानं दीयते, येन संक्रमणं सक्रियरूपं धारयितुं पूर्वमेव निरोद्धुं शक्येत। अर्वाचीने शतदिवसीयविशेषतपेदिकमुक्तभारतमभियाने एव त्रिपञ्चाशत्सहस्रनवशतसप्तषष्टिः लक्षणरहिततपेदिकरोगिणः परिचिताः अभवन्।

राष्ट्रियतपेदिककार्यबलस्य उपाध्यक्षः डा. राजेन्द्रप्रसादः अवदत् यत् तपेदिकनिर्मूलनस्य लक्ष्यं केवलं रोगिणामुपचारः नास्ति, अपितु गूढसंक्रमणस्य विषये जनान् जागरूकान् कर्तुमपि अस्ति। यदि जनाः सुप्ततपेदिकसंक्रमणं सम्यक् अवगच्छेयुः, सङ्कटसमूहस्थाः जनाः समये परीक्षणं कुर्युः, चिकित्सकस्य परामर्शं च पालयेयुः, तर्हि प्रदेशं तपेदिकमुक्तं कर्तुं एतत् महत्त्वपूर्णं पदं भविष्यति।

---

Hindusthan Samachar / Dheeraj Maithani