Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 27 जुलाईमासः (हि.स.)।
उत्तराखण्डे प्रथमवारं पारम्परिकभारतीय सन्धाननिर्माणस्य परम्परां नवसनततिपर्यन्तं प्रापयितुम् आयोजिते मैंगो फेस्ट इति महोत्सवे एकशतपञ्चाशत् महिलाः एकत्र समागताः सन्त्यः आम्रसन्धानस्य मिश्रणं कृत्वा अभिलेखप्रयत्नं सफलतया सम्पन्नवत्यः। अस्य आयोजनस्य उद्देश्यः केवलम् अभिलेखनिर्माणं नासीत् अपितु भारतीयभोजनपरम्परायाः पारम्परिकव्यञ्जनानां गृहनिर्मित सन्धानसंस्कृतेः संरक्षणस्य सन्देशं प्रसारयितुम् आसीत्।कार्यक्रमस्य मुख्याकर्षणं एकशतपञ्चाशत् महिलाभिः एकत्र पारम्परिकविधिना आम्रसन्धानस्य मिश्रणं कृत्वा अभिलेखप्रयत्नस्य सम्पन्नीकरणम् आसीत्।एतत् पुस्तकं विविधप्रकाराणां पारम्परिकभारतीय सन्धानानां विधीनां तैः सम्बद्धायाश्च परम्परायाः आधारेण विरचितम् अस्ति।तेजस्विनी चैरिटेबल ट्रस्ट संस्थायाः अध्यक्षा प्रिया गुलाटी उक्तवती यत्, अस्माकं उद्देश्यः केवलम् अभिलेखनिर्माणं नासीत्। वयं इच्छामः यत् भारतीयपरम्परा सन्धाननिर्माणस्य शताब्दीपुरातना कला परिवारैः सह सम्बद्धा भावनात्मिका परम्परा च भाविसंततिपर्यन्तं सुरक्षितरूपेण प्राप्नुयात्।
----
Hindusthan Samachar / Dheeraj Maithani