देवसंस्कृतिविश्वविद्यालये भारतीयज्ञानपरम्परायाः आधुनिकशिक्षायाश्च अद्भुतः समन्वयः - नितिन-गडकरी
—देवसंस्कृतिविश्वविद्यालयस्य षट्चत्वारिंशत्तमः ज्ञानदीक्षा-संस्कार-समारोहः सम्पन्नः, केन्द्रीयमन्त्रिणा गडकरिणा मार्गदर्शनं प्रदत्तम् — आत्मोन्नतिः, चरित्रनिर्माणं लोक-मङ्गलभावनायाश्च विकासः एव शिक्षायाः वास्तविकम् उद्देश्यम् हरिद्वारनगरम्, २७ जु
ज्ञान दीक्षा समारोह में मंचासीन अतिथि


—देवसंस्कृतिविश्वविद्यालयस्य षट्चत्वारिंशत्तमः ज्ञानदीक्षा-संस्कार-समारोहः सम्पन्नः, केन्द्रीयमन्त्रिणा गडकरिणा मार्गदर्शनं प्रदत्तम्

— आत्मोन्नतिः, चरित्रनिर्माणं लोक-मङ्गलभावनायाश्च विकासः एव शिक्षायाः वास्तविकम् उद्देश्यम्

हरिद्वारनगरम्, २७ जुलाईमासः (हि.स.)। देवसंस्कृतिविश्वविद्यालये शान्तिकुञ्जे सोमवासरे षट्चत्वारिंशत्तमः ज्ञानदीक्षा-संस्कार-समारोहः उत्साहपूर्वकं सम्पन्नः। अस्मिन् समारोहे बिहार-गुजरात-उत्तराखण्ड-उत्तरप्रदेश-मध्यप्रदेश-छत्तीसगढ-प्रभृतिभ्यः अनेकेभ्यः राज्येभ्यः विदेशेभ्यश्च आगताः छात्राः छात्राश्च सहभागिनः अभवन्।

केन्द्रीय-मार्ग-परिवहन-राजमार्गमन्त्री नितिन-गडकरी स्वस्य दृश्यसन्देशे अवदत् यत् भारतीय-ऋषि-परम्परायां शिक्षा श्रेष्ठताया जागरणस्य मार्गः मन्यते। आत्मोन्नतिः, चरित्रनिर्माणं लोकमङ्गल-भावनायाश्च विकासः एव शिक्षायाः वास्तविकम् उद्देश्यम् अस्ति। सः अवदत् यत् देवसंस्कृतिविश्वविद्यालये भारतीय-ज्ञानपरम्परायाः आधुनिक-शिक्षायाश्च अद्भुतः समन्वयः दृश्यते। अत्र योगः, यज्ञः, साधना, भारतीयजीवनशैली, पर्यावरण-संवेदन-शीलता, सामाजिक-उत्तरदायित्व-भावना च जागरयितुं निरन्तरः प्रयासः क्रियते। ज्ञानार्जनेन सह उच्चजीवनदृष्टिम् अङ्गीकृत्य वयं स्वस्य देशस्य च प्रगतिपथे अग्रे नेतुं शक्नुमः इति अपि तेन उक्तम्।

देवसंस्कृतिविश्वविद्यालयस्य प्रतिकुलपतिः डॉ. चिन्मय-पण्ड्या अवदत् यत् ज्ञानदीक्षा अस्मान् स्मारयति यत् जीवने किञ्चिद् उत्तमं, महत्, सार्थकं च कर्तुं दृढसङ्कल्पः एव पर्याप्तः। अतः युवभ्यः स्वासाम् आन्तरिकशक्तीनां परिचयं प्राप्य तासां सकारात्मकः विकासः करणीयः। अयं कालः ज्योतेः ज्वालारूपेण परिवर्त्य राष्ट्रस्य समाजस्य च नवनिर्माणे सक्रियभूमिकां निर्वहणस्य अस्ति।

शान्तिकुञ्जस्य प्रमुखः विश्वविद्यालयस्य कुलाधिपतिश्च डॉ. प्रणव-पण्ड्या नव-प्रवेशितेभ्यः छात्रेभ्यः छात्राभ्यश्च वैदिकमन्त्र-उच्चारणेन सह ज्ञानदीक्षां प्रदत्तवान्। कार्यक्रमे विद्यार्थिभ्यः शिक्षया सह जीवनमूल्यानां, सेवाभावनायाः तथा भारतीयसंस्कृतेः आदर्शानां बोधः अपि कारितः।

शान्तिकुञ्ज-उपडाकगृहस्य स्वर्णजयन्त्यां विशेषः पिक्टोरियल-मुद्रा प्रकाशिता

कार्यक्रमस्य अवसरे शान्तिकुञ्ज-उपडाकघरस्य स्थापनायाः पञ्चाशद्वर्षपूर्त्यां भारतीय-डाकविभागेन विशेषः पिक्टोरियल-मुद्रा प्रकाशिता। अस्यां मुद्रायां शान्तिकुञ्जस्य संस्थापकस्य पण्डित-श्रीराम-शर्माचार्यस्य मातु: भगवतीदेवी-शर्मा-इत्यस्या: च पवित्र-समाधिस्थलस्य चित्रम् अङ्कितम् अस्ति।

अस्मिन् अवसरे शान्तिकुञ्ज-व्यवस्थापकः योगेन्द्र-गिरिः, कुलसचिवः बलदाउ-देवाङ्गनः, प्रवर-अधीक्षकः डाक-गृहस्य सचिन-चौबे तथा विश्वविद्यालयस्य प्राध्यापकाः, अधिकारिणः, अभिभावकाः, द्विसहस्राधिकाः नवप्रवेशिताः पुरातनाश्च छात्राः छात्राश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan