सुप्रयास-संस्थया प्रतिभाशालिनः छात्राः छात्राश्च सम्मानिताः
हरिद्वारनगरम्, २७ जुलाईमासः (हि.स.)। नगरस्य प्रतिष्ठिता सामाजिकसंस्था ‘सुप्रयास’ इत्यनया सोमवासरे चेतन-ज्योति-आश्रमस्य सभागारे मेधावी-छात्र-छात्रा-सम्मान-समारोहः आयोजितः। अस्मिन् आर्थिकदृष्ट्या दुर्बलवर्गस्य प्रतिभाशालिनः छात्राः छात्राश्च सम्मानित
सम्मानित होती छात्रा


हरिद्वारनगरम्, २७ जुलाईमासः (हि.स.)। नगरस्य प्रतिष्ठिता सामाजिकसंस्था ‘सुप्रयास’ इत्यनया सोमवासरे चेतन-ज्योति-आश्रमस्य सभागारे मेधावी-छात्र-छात्रा-सम्मान-समारोहः आयोजितः। अस्मिन् आर्थिकदृष्ट्या दुर्बलवर्गस्य प्रतिभाशालिनः छात्राः छात्राश्च सम्मानिताः।

मुख्यातिथिः अपर-जनपदाधिकारी वैभव-गुप्तः अवदत् यत् जीवने अग्रे गन्तुं लक्ष्यनिर्धारणं कृत्वा निरन्तरं प्रयासः करणीयः, तदा सफलता अवश्यमेव लभ्यते। सः अवदत् यत् यदा विद्यार्थिभ्यः अवसरः प्रदीयते, तदा ते स्वप्रतिभया देशस्य समाजस्य च मार्गदर्शनं कुर्वन्ति। गत-द्विदशकात् ‘सुप्रयास’ संस्थया आर्थिकदृष्ट्या दुर्बलेभ्यः बालकेभ्यः शिक्षायाः अवसरं प्रदातुं क्रियमाणान् प्रयत्नान् सः प्रशशंस।

एस.एम.जे.एन. (पी.जी.) महाविद्यालयस्य प्राचार्यः प्रो. सुनील-कुमार-बत्रा अवदत् यत् ‘सुप्रयास’ संस्थायाः कार्यम् अत्यन्तं प्रेरणादायकम् अस्ति। अद्य सम्मानितेषु एतेषु बालकेषु एव भविष्यस्य वैज्ञानिकाः, चिकित्सकाः, समाजसेविनश्च भविष्यन्ति।

संस्थायाः संस्थापकः महामन्त्री डॉ. सत्यनारायण-शर्मा अवदत् यत् चतुर्भिः बालकैः प्रारब्धा संस्था अद्य पञ्चत्रिंशत् बालकेभ्यः मार्गदर्शनं प्रददाति। संस्था “प्रयासः भवताम्, सहयोगः अस्माकम्” इति मन्त्रं पुरस्कृत्य कार्यं करोति। संस्थाध्यक्षः राजेन्द्रनाथ-गोस्वामी अवदत् यत् संस्थायाः उद्देश्यं दुर्बलवर्गस्य मेधाविभ्यः बालकेभ्यः स्वप्रतिभा-प्रदर्शनाय अवसरं प्रदातुम् अस्ति। कार्यक्रमस्य सञ्चालनं बीनू-बलूनी अकरोत्।

अस्मिन् कार्यक्रमे ब्रजभूषण-विद्यार्थी, दिनेश-शर्मा, डॉ. श्वेता-खण्डूरी, इला-शर्मा, हर्ष-कालरा, अभिभावकाः, छात्राः छात्राश्च तथा गणमान्य-नागरिकाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan