विद्या-भारती-प्रतिभा-सम्मान-समारोहः : मुख्यमन्त्री धामी प्रतिभाशालिनः विद्यार्थिनः सम्मानितवान्
हरिद्वारनगरम्, २७ जुलाईमासः (हि.स.)। विद्या-भारती-अखिलभारतीय-शिक्षा-संस्थानस्य उत्तराखण्ड-प्रान्तस्य तत्त्वावधाने रुड़की-नगरस्थिते आनन्द-स्वरूप-आर्य-सरस्वती-विद्या-मन्दिरे सोमवासरे प्रतिभा-सम्मान-समारोहः आयोजितः। अस्मिन् समारोहे उत्तराखण्डस्य मुख्य
प्रतिभा सम्मान समारोह में सम्मानित करते हुए मुख्यमंत्री


हरिद्वारनगरम्, २७ जुलाईमासः (हि.स.)। विद्या-भारती-अखिलभारतीय-शिक्षा-संस्थानस्य उत्तराखण्ड-प्रान्तस्य तत्त्वावधाने रुड़की-नगरस्थिते आनन्द-स्वरूप-आर्य-सरस्वती-विद्या-मन्दिरे सोमवासरे प्रतिभा-सम्मान-समारोहः आयोजितः। अस्मिन् समारोहे उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह-धामी विद्या-भारती-सञ्चालितेषु विद्यालयेषु उच्च-माध्यमिक-माध्यमिक-परीक्षयोः उत्कृष्टं प्रदर्शनं कृतवन्तः प्रतिभाशालिनः विद्यार्थिनः सम्मानितवान्।

मुख्यमन्त्री अवदत् यत् निरन्तरं तृतीयवर्षे प्रतिभाशालिनः विद्यार्थिनः सम्मानयितुं अवसरः प्राप्तः, एतत् स्वस्य सौभाग्यम् अस्ति। विद्यार्थिनां सफलता एतत् सिद्धयति यत् परिश्रमेण, अनुशासनेन, संस्कारेण च सर्वं लक्ष्यं साधयितुं शक्यते। अयं सम्मानः तेषाम् आत्मविश्वासं नूतनया ऊर्जoया पूरयिष्यति तथा भविष्ये सर्वेषु क्षेत्रेषु उत्कृष्टतां प्राप्तुं प्रेरयिष्यति। तेन उक्तं यत् विद्या-भारती सनातनसंस्कृतेः, राष्ट्रभक्तेः, भारतीयमूल्यानां च आधारेण शिक्षां प्रदाय देशे संस्कारस्य दृढां आधारशिलां स्थापितवती। १९५२ तमे वर्षे गोरखपुरे प्रारब्धः सरस्वती-शिशु-मन्दिर-प्रयासः अद्य विशाल-वटवृक्षरूपेण विकसितः। अधुना विद्या-भारती देशव्यापि १३ सहस्राणि औपचारिक-विद्यालयानि, १२ सहस्राण्यनौ-पचारिक-विद्यालयानि च सञ्चालयति, यैः ४५ लक्षाधिकाः विद्यार्थिनः शिक्षां प्राप्नुवन्ति। उत्तराखण्डे विद्या-भारत्याः ५६२ विद्यालयेषु सपात्-लक्षाधिकाः छात्राः अध्ययनं कुर्वन्ति।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारेण सर्वप्रथमं राष्ट्रीय-शिक्षा-नीतिः-२०२० कार्यान्विता, येन शिक्षा आधुनिकीकृता रोजगारोन्मुखी च अभवत्। राज्ये स्मार्ट-कक्षाः, निःशुल्क-पुस्तक-वितरणम्, उपानहौ, विद्यालय-स्यूता:, मेधावी-विद्यार्थी-प्रोत्साहन-योजना, आदर्श-महाविद्यालयाः, सूचना-प्रौद्योगिकी-प्रयोगशालाः तथा ‘कौशलम्’ कार्यक्रमः सञ्चाल्यन्ते। युवजनानां कृते देशस्य कठोरतमः नकल-विरोधी-नियमः अपि प्रवर्तितः। गतपञ्चवर्षेषु ३४ सहस्राधिकेभ्यः युवभ्यः पारदर्शितया शासकीय-नियुक्तयः प्रदत्ताः। यूपीएससी, एनडीए, सीडीएस इत्यादीनां परीक्षाणां लिखितपरीक्षां उत्तीर्णेभ्यः अभ्यर्थिभ्यः ५० सहस्र-रूप्यकाणां आर्थिकसाहाय्यमपि प्रदीयते। सः विद्यार्थिनः प्रति उक्तवान् यत् यूयमेव भारतस्य वर्तमानं भविष्यं च; भवतां ज्ञानेन राष्ट्रभक्त्या च विकसित-भारतस्य सङ्कल्पः साकारः भविष्यति। अस्मिन्नवसरे मुख्यमन्त्री विद्यालये नवनिर्मितायाः शिशु-वाटिकायाः लोकार्पणमपि अकरोत्।

अस्य पूर्वं सरस्वती-वन्दनया प्रारब्धे समारोहे विद्या-भारत्याः क्षेत्रीय-सङ्गठन-मन्त्री डोमेश्वर-साहू विद्या-भारत्याः राष्ट्रिय-कार्यविस्तारस्य विविधक्षेत्रेषु प्राप्तानां उपलब्धीनां च विस्तृतं विवेचनम् अकरोत्।

विद्या-भारती-उत्तराखण्डस्य प्रान्तीय-मन्त्री डॉ. रजनीकान्त-शुक्लः अवदत् यत् उत्तराखण्डे विद्याभारत्याः अन्तर्गतं ५६३ विद्यालयानि सञ्चाल्यन्ते, यत्र सवा-लक्षाधिकाः विद्यार्थिनः अध्ययनरताः सन्ति तथा ५००० शिक्षक-शिक्षिकाः तेषां मार्गदर्शनं कुर्वन्ति। तेन उक्तं यत् उत्तराखण्ड-माध्यमिक-शिक्षा-मण्डलस्य २०२६ वर्षस्य उच्चविद्यालय-मध्यवर्ती-परीक्षयोः विद्या-भारत्याः ११२ विद्यार्थिनः श्रेष्ठ-पञ्चविंशति-स्थानानि प्राप्तवन्तः। एते विद्यार्थिनः अद्य मुख्यमन्त्रिणा सम्मानिताः। अस्मिन्नवसरे विद्या-भारत्याः प्रदेश-निरीक्षकः डॉ. विजयपाल-सिंहः अतिथीनां परिचयं कारितवान्। समारोहस्य अध्यक्षता रुड़की-भारतीय-प्रौद्योगिकी-संस्थानस्य निदेशकः प्रो. कमलकिशोर-पन्तः अकरोत्, सञ्चालनं च विद्या-भारत्याः सम्भाग-निरीक्षकः नत्थीलाल-बंगवालः अकरोत्।

Hindusthan Samachar / Divya Ranjan