Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २७ जुलाईमासः (हि.स.)। राजस्थानस्य मुख्यमन्त्रिणा भजनलाल-शर्मणा सोमवासरे पश्चिमबङ्ग-विधान-सभायाः अध्यक्षः रथीन्द्र-बोसः शिष्टाचार-साक्षात्कारं कृतवान्।
मुख्यमन्त्री-निवासे सम्पन्ने अस्मिन् साक्षात्कारे उभयोर्मध्ये जनकल्याणकारी-योजनानां विषये चर्चा अभवत्। अस्मिन् अवसरे पश्चिमबङ्ग-विधानसभाध्यक्षः मुख्यमन्त्रिण: गुरुदेव-रवीन्द्रनाथ-ठाकुरस्य प्रसिद्धां ‘गीताञ्जलि’ नाम्न: पुस्तकं समर्पितवान्।
Hindusthan Samachar / Divya Ranjan