Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 27 जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य तथा राष्ट्रियस्वयंसेवकसङ्घस्य सोमवासरे अत्र सम्पन्नायां समन्वयोपवेशने आगामिविधानसभानिर्वाचनस्य सज्जता, केन्द्रराज्यसरकारयोः योजनानां जनजनपर्यन्तं प्रसारणम् तथा सङ्गठनसरकारयोः मध्ये उत्तमसमन्वयस्य विषये विस्तृतः विचारविमर्शः अभवत्।
अस्य उपवेशनस्य विषये किमपि आधिकारिकवक्तव्यं न प्रकाशितम्, किन्तु सूत्रैः ज्ञापितं यत् उपवेशने सङ्घस्य सहसरकार्यवाहः अरुणकुमारः तथा भारतीयजनतापक्षस्य राष्ट्रियसङ्गठनमहामन्त्री बीएलसन्तोषः सङ्गठनसम्बद्धविषयेषु मार्गदर्शनम् अददाताम्। उभाभ्यां नेतृभ्यां सङ्गठनस्य सुदृढीकरणे, कार्यकर्तॄणां सक्रियभूमिकायाम् तथा जनसम्पर्काभियानानाम् अधिकप्रभावीकरणे विशेषः बलः दत्तः। तथा आगामिनिर्वाचनान् दृष्ट्वा मतदानकेन्द्रस्तरपर्यन्तं सङ्गठनस्य अधिकसुदृढीकरणम्, सरकारस्य उपलब्धीनां सामान्यजनपर्यन्तं प्रसारणम् इत्यादिषु विविधेषु पक्षेषु चर्चा कृता।
उपवेशने प्रदेशे सञ्चाल्यमानानां सङ्गठनात्मककार्यक्रमाणां समीक्षा अपि कृता। सरकारसङ्गठनयोः मध्ये उत्तमसंवादसमन्वयाभ्यां विकासकार्याणि जनकल्याणयोजनाश्च अधिकप्रभावीरीत्या जनतापर्यन्तं कथं प्राप्नुयुः इति विषये अपि मन्थनम् अभवत्। एतदतिरिक्तम् आगामिदिनेषु प्रस्तावितानां राजनैतिकसङ्गठनात्मककार्यक्रमाणां रूपरेखा तथा कार्यकर्तॄणां दायित्वविभागस्य विषये अपि चर्चा अभवत्।
उपवेशने सङ्घस्य पश्चिमोत्तरप्रदेशक्षेत्रस्य प्रचारकः महेन्द्रः, प्रान्तप्रचारकः डॉ शैलेन्द्रः, भारतीयजनतापक्षस्य प्रदेशाध्यक्षः महेन्द्रभट्टः, भारतीयजनतापक्षस्य सहप्रभारी रेखावर्मा तथा भारतीयजनतापक्षस्य सङ्घस्य च विविधप्रदेशस्तरीयपदाधिकारी उपस्थिताः आसन्। सङ्गठनस्य विविधानाम् आनुषङ्गिकसङ्गठनानां प्रतिनिधयः अपि उपवेशने उपस्थिताः आसन्।
सूत्रैः ज्ञापितं यत् उपवेशने सङ्गठनस्य आगामिकार्ययोजना, मतदानकेन्द्रस्तरे सक्रियतावृद्धिः, जनभागीदारीप्रधानकार्यक्रमाणां विस्तारः तथा कार्यकर्तृभिः सह नियमितसंवादस्य निरन्तरतायै विशेषः बलः दत्तः। तथा प्रदेशे सङ्गठनसर्वकारयोः समन्वयस्य अधिकसुदृढीकरणे अपि सर्वसम्मत्या सहमतिर्निर्मिता।-----------
Hindusthan Samachar / Dheeraj Maithani