Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 28 जुलाईमासः (हि.स.)।
असमप्रदेशस्य सांसदाः मङ्गलवासरे दिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदिनः समागत्य राज्यस्य विभिन्नभागेषु विद्यमानां बाढपरिस्थितिं तस्मै अवेदयन्। प्रधानमन्त्री एक्स माध्यमे अलिखत्, अद्य असमप्रदेशस्य सांसदैः सह मम समागमः अभवत् तथा राज्यस्य विभिन्नभागेषु विद्यमानायाः जलप्लावनपरिस्थितेः विषये चर्चा कृता। केन्द्रसर्वकारः प्रभावितजनानां साहाय्यार्थम् असमसर्वकारेण सह संयुक्तरूपेण कार्यं करोति। अहं सर्वेषां सुरक्षायै कल्याणाय च प्रार्थनां करोमि।
उल्लेखनीयं यत् गतानां कतिपयानां दिनानां निरन्तरप्रवर्तमानया अतिवृष्ट्या पूर्वोत्तरप्रदेशे महती विपत्तिः अभवत्। तत्र बाढागमनात् अनेकानि परिवाराणि अनिकेतानि अभवन्। तेषां जनजीवनं अत्यन्तं प्रभावितम् अभवत्। सम्प्रति जिलाप्रशासनम् एसडीआरएफ एनडीआरएफ सेना वायुसेना च निरन्तरं प्रभावितप्रदेशेषु निरीक्षणकार्यं कुर्वन्ति।
------------
Hindusthan Samachar / Dheeraj Maithani