असम-विधानसभायाः वित्तविवरण-सत्रस्य समापनं निर्धारित-समयात् द्विदिनपूर्वं २९ जुलाईमाहे भविष्यति
गुवाहाटीनगरम्, २८ जुलाईमासः (हि.स.)। षोडशी-असम-विधानसभायाः वित्तविवरण-सत्रस्य समापनं निर्धारित-समयात् द्विदिनपूर्वं २९ जुलाईमासे भविष्यति। एतस्य घोषणा अद्य असम-विधानसभाध्यक्षः रञ्जीत-कुमार-दास-महोदयः प्रश्नकालस्य समापनानन्तरं सदनं प्रति अकरोत्। ते
असम विधानसभा का दृश्य


गुवाहाटीनगरम्, २८ जुलाईमासः (हि.स.)। षोडशी-असम-विधानसभायाः वित्तविवरण-सत्रस्य समापनं निर्धारित-समयात् द्विदिनपूर्वं २९ जुलाईमासे भविष्यति। एतस्य घोषणा अद्य असम-विधानसभाध्यक्षः रञ्जीत-कुमार-दास-महोदयः प्रश्नकालस्य समापनानन्तरं सदनं प्रति अकरोत्।

तेन उक्तं यत् असम-राज्ये जाताया: भीषण-जलवृद्धे: कारणात् राहत-उद्धार-कार्याणि अद्यापि प्रवर्तमानानि सन्ति। विधायकाः जलवृद्धि-पीडित-क्षेत्रेषु गत्वा जनानां साहाय्यं करिष्यन्ति। एतया दृष्ट्या गत-सोमवासरे सदनस्य कार्य-परामर्श-समितेः सभायां सदनस्य कार्यवाहीं निर्धारित-समयात् द्विदिनपूर्वमेव समाप्तुं निर्णयः कृतः। अध्यक्षस्य अस्य निर्णयस्य विधायकेभ्यः स्वागतं कृतम्।

Hindusthan Samachar / Divya Ranjan