Enter your Email Address to subscribe to our newsletters

– उपमुख्यमन्त्री अरुणसावः सम्मेलनस्य शुभारम्भं करिष्यति
रायपुरनगरम्, २८ जुलाईमासः (हि.स.)। छत्तीसगढे क्रीडाविकासस्य दिशा-निर्धारणाय क्रीडकाणां च विश्वस्तरीय-सुविधानां प्रदाने प्रयत्नस्य भागरूपेण राज्यस्य प्रथमं क्रीडासम्मेलनम् अद्य मङ्गलवासरे राजधान्यां रायपुरे आयोज्यते। देशस्य विविधभागेभ्यः आगताः क्रीडाप्रशासकाः, विशेषज्ञाः, क्रीडा-विज्ञानिनः, नीतिनिर्मातारः, अन्ताराष्ट्रिय-क्रीडकाश्च एकस्मिन् मञ्चे समागत्य क्रीडाधारसंरचनायाः, प्रतिभा-परिचयस्य, प्रशिक्षणव्यवस्थायाः, राज्यस्य दीर्घ-कालिकक्रीडानीतेः च विषये व्यापकविमर्शं करिष्यन्ति।
राजधानीस्थिते कोर्टयार्ड-बाय-मेरियट्-अतिथिगृहे आयोजितस्य अस्य सम्मेलनस्य शुभारम्भः उपमुख्यमन्त्रिणा तथा क्रीडा-युवकल्याणमन्त्रिणा अरुण-सावेन प्रातः एकादशवादने करिष्यते। उद्घाटनसत्रे सः “नेतृत्वम्, क्रीडाप्रोत्साहनम् तथा प्रतिभापरिचयः” इति विषये स्वविचारान् प्रस्तोष्यति। अस्मिन् अवसरे अन्ताराष्ट्रियकबड्डीक्रीडिका सञ्जूदेवी, अन्ताराष्ट्रियपादकन्दुक-क्रीडिका किरणपिस्दा, सन्तरिका अनुष्काभगतः तथा धावकः लकीमरकामः अपि मञ्चम् आगमिष्यन्ति।
मुख्यमन्त्री विष्णुदेवसायः सायंकालीनसत्रे सहभागं कृत्वा प्रथम-खेलो-इण्डिया-जनजातीय-क्रीडास्पर्धासु छत्तीसगढस्य कृते पदकविजेतृभ्यः क्रीडकेभ्यः प्रोत्साहनधनराशिं प्रदास्यति। एतत् राज्ये क्रीडाप्रतिभानां सम्मानस्य प्रोत्साहनस्य च दिशि महत्त्वपूर्णं पदक्षेपं मन्यते।
दिवसभरं प्रवर्तमानेषु सप्त विषयगतसत्रेषु भारतस्य भाविनाम् ओलम्पिकविजेतॄणां सिद्धता, क्रीडाविकासस्य सम्भाव्यमार्गाः, क्रीडामहासङ्घानां संघानां च भूमिका, क्रीडाविज्ञानस्य माध्यमेन प्रदर्शनस्य उन्नयनम्, क्रीडाधारसंरचनायां तथा क्रीडाप्रशिक्षणकेन्द्रेषु सार्वजनिक-निजी-सहभागिता, खेलो इण्डिया अभियानम्, छत्तीसगढस्य पदकनीतिः, राज्यक्रीडा-नीतिश्च इत्यादिषु महत्त्वपूर्णविषयेषु गम्भीरविमर्शः भविष्यति। समापनसत्रे विशेषज्ञानां विचारा: निष्कर्षाश्च प्रस्तूयन्ते, ये राज्यस्य भाविक्रीडानीतेः कार्य-योजनायाश्च आधाररूपेण स्वीकृताः भविष्यन्ति।
सम्मेलने मुख्यवक्तृरूपेण ओलम्पिक-क्रीडकः जिन्सनजॉनसनः, प्रख्यातः क्रीडावैज्ञानिकः डॉ. रत्नेशसिंहः, छत्तीसगढ-ओलम्पिक-सङ्घस्य महासचिवः विक्रमसिसोदिया, उच्चप्रदर्शन-विश्लेषकः रोनक्कोठारी, पीईएफआई संस्थायाः राष्ट्रियसचिवः डॉ. पियूषजैनः तथा खेलो इण्डिया-अभियानस्य उपमहानिदेशकः मयङ्क-श्रीवास्तवः स्वानुभवान् विचारांश्च सहभागं करिष्यन्ति।
राज्यसर्वकारस्य मतम् अस्ति यत् एतत् क्रीडासम्मेलनं केवलं विचारविमर्शस्य मञ्चः न, अपितु छत्तीसगढस्य राष्ट्रीय-अन्ताराष्ट्रिय-क्रीडामानचित्रे नूतनपरिचयं प्रदातुं निर्णायकः प्रयत्नः भविष्यति। क्रीडकाणां कृते उत्तमप्रशिक्षणम्, आधुनिक-क्रीडाविज्ञानम्, सुदृढाधार-संरचना, प्रभाविणी क्रीडानीतिश्च माध्यमी-कृत्य राज्ये क्रीडासंस्कृत्यै नूतनगतिः प्रदास्यते।
Hindusthan Samachar / Divya Ranjan