Enter your Email Address to subscribe to our newsletters

रायपुरम्,28 जुलाईमासः (हि.स.)।
छत्तीसगढस्य वित्तमन्त्री ओपीचौधरी राष्ट्रमण्डलक्रीडा २०२६ अन्तर्गतं ग्लासगोनगरे आयोजितायां पुरुषाणाम् उच्चकूदस्पर्धायां उत्कृष्टं प्रदर्शनं कृत्वा रजतपदकं विजितवन्तं भारतीयक्रीडकं सर्वेशकुशारे इत्यस्मै हार्दिकाः शुभकामनाः अभिनन्दनं च प्रदत्तवान्।
वित्तमन्त्री चौधरी अद्य मङ्गलवासरे स्वबधाईसन्देशे उक्तवान् यत् सर्वेशकुशारे स्वस्य उत्कृष्टप्रदर्शनेन कठिनपरिश्रमेण दृढात्मविश्वासेन च अन्तरराष्ट्रीयमञ्चे भारतस्य गौरवं वर्धितवान्। तस्य एषा ऐतिहासिकी उपलब्धिः समग्रदेशस्य कृते गौरवस्य सम्मानस्य च विषयः अस्ति। तेन उक्तं यत् राष्ट्रमण्डलक्रीडासु रजतपदकं विजित्य सर्वेशकुशारे भारतीयक्रीडाक्षेत्रस्य वर्धमानां सामर्थ्यं प्रदर्शितवान्। तस्य समर्पणम् अनुशासनं संघर्षश्च देशस्य युवाक्रीडकानां कृते प्रेरणास्रोतः अस्ति तथा एषा सफलता तान् क्रीडासु उत्कृष्टप्रदर्शनाय प्रोत्साहयिष्यति।
वित्तमन्त्री ओपीचौधरी सर्वेशकुशारे इत्यस्मै अस्याः उत्कृष्टायाः उपलब्धेः कृते पुनः हार्दिकं अभिनन्दनं प्रदाय आगामिस्पर्धासु उत्कृष्टप्रदर्शनाय उज्ज्वलभविष्याय च अनन्ताः शुभकामनाः प्रदत्तवान्।
Hindusthan Samachar / Dheeraj Maithani