हेपेटाइटिसदिवस : मुख्यमंत्री हेपेटाइटिस-मुक्तीकर्तुं संकल्पम् आवर्तितवान्
भुवनेश्वरम्, 28 जुलाईमासः (हि.स.)। विश्वहेपेटाइटिसदिवसस्य अवसरे ओडिशाप्रदेशस्य मुख्यमन्त्री मोहनचरणमाझी राज्यं हेपेटाइटिसरोगमुक्तं कर्तुं स्वसङ्कल्पं पुनः उद्घोषितवान्। तेन उक्तं यत् समये परीक्षणेन समुचितचिकित्सया टीकाकरणेन जनजागरूकतया च अस्य रोग
मुख्यमंत्री मोहन चरण माझी  (फाइल फोटो)


भुवनेश्वरम्, 28 जुलाईमासः (हि.स.)।

विश्वहेपेटाइटिसदिवसस्य अवसरे ओडिशाप्रदेशस्य मुख्यमन्त्री मोहनचरणमाझी राज्यं हेपेटाइटिसरोगमुक्तं कर्तुं स्वसङ्कल्पं पुनः उद्घोषितवान्। तेन उक्तं यत् समये परीक्षणेन समुचितचिकित्सया टीकाकरणेन जनजागरूकतया च अस्य रोगस्य निवारणं कर्तुं शक्यते।

मुख्यमन्त्री स्वसन्देशे जनान् आहूतवान् यत् ते अस्य रोगस्य सामाजिककलङ्कस्य समापनार्थं निवारणव्यवस्थायाः सुदृढीकरणार्थं स्वस्थभविष्यस्य निर्माणार्थं च सक्रियसहभागित्वं कुर्वन्तु। तेन उक्तं यत् सामूहिकप्रयत्नैः एव ओडिशाप्रदेशः हेपेटाइटिसरोगमुक्तः अधिकस्वस्थश्च कर्तुं शक्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani