क्षीर-उद्योगस्य संवर्धनार्थं मुख्यमन्त्रिणा सैनी-महोदयेन महत्यः घोषणाः कृताः
चण्डीगढनगरम्, २८ जुलाईमासः (हि.स.)। हरियाणा-राज्यस्य मुख्यमन्त्री नायबसिंह-सैनी-महोदयः क्षीर-उद्योगस्य नूतन-गतिप्रदानाय, कृषकाणाम् आयवृद्धये तथा महिला-स्वयंसहायता-समूहानाम् आर्थिक-सशक्तीकरणाय पञ्च महत्त्वपूर्णाः घोषणाः कृतवान्। एतैः निर्णयैः क्षीर-
क्षीर-उद्योगस्य संवर्धनार्थं मुख्यमन्त्रिणा सैनी-महोदयेन महत्यः घोषणाः कृताः


चण्डीगढनगरम्, २८ जुलाईमासः (हि.स.)। हरियाणा-राज्यस्य मुख्यमन्त्री नायबसिंह-सैनी-महोदयः क्षीर-उद्योगस्य नूतन-गतिप्रदानाय, कृषकाणाम् आयवृद्धये तथा महिला-स्वयंसहायता-समूहानाम् आर्थिक-सशक्तीकरणाय पञ्च महत्त्वपूर्णाः घोषणाः कृतवान्। एतैः निर्णयैः क्षीर-व्यवसायस्य संवर्धनं भविष्यति, ग्रामीण-अर्थव्यवस्थां सहकारिता-आन्दोलनं च अधिकं सुदृढं भविष्यति।

मुख्यमन्त्री सैनी-महोदयः घोषितवान् यत् वीटा-संस्थायै क्षीरम् उपलभ्यमानं कुर्वन्तीनां महिला-स्वयंसहायता-समूहानां तथा महिला-सी.एम.-पैक्स-संस्थासु सम्बद्धानां महिला: प्रति प्रतिलीटरं १० रूप्यकाणां प्रोत्साहन-राशिः प्रदास्यते। अनेन अधिकाधिकाः महिलाः क्षीर-व्यवसायेन सम्बद्धाः भविष्यन्ति। तेन ग्रामेषु पञ्चायतीय-भूमिषु ‘सांझी-डेयरी’ इत्यस्याः सामुदायिक-क्षीरशालायाः स्थापनायाः अपि घोषणा कृता। एतासु सामुदायिक-क्षीरशालासु महिला-स्वयंसहायता-समूहानां सदस्य-महिलानां पशूनां कृते आधुनिक-सुविधाः विकसिताः भविष्यन्ति, येन पशुपालनस्य व्ययः न्यूनीभविष्यति तथा महिलानाम् आयोऽपि वर्धिष्यते।

मुख्यमन्त्री एतदपि घोषितवान् यत् हरियाणा-क्षीर-विकास-सहकारी-प्रसङ्घः महिला-स्वयंसहायता-समूहानां तथा महिला-सी.एम.-पैक्स-सदस्यानां दुग्ध-पशूनां क्रयणार्थं न्यून-ब्याज-दरेण ऋण-प्राप्तौ साहाय्यं करिष्यति, येन अधिकाधिकाः महिलाः क्षीर-व्यवसायम् अवलम्ब्य आत्मनिर्भराः भविष्यन्ति। एतदतिरिक्तं मुख्यमन्त्री मुख्यमन्त्री-दुग्ध-उत्पादक-प्रोत्साहन-योजनायाः अन्तर्गतं हरियाणा-क्षीर-विकास-सहकारी-प्रसङ्घाय क्षीरम् उपलभ्यमानं कुर्वतां दुग्ध-उत्पादकानां प्रोत्साहन-राशेः वृद्धेः घोषणामपि कृतवान्।

अस्याः घोषणायाः अनुसारं ग्रीष्मकाले प्रोत्साहन-राशिः प्रतिलीटरं ५ रूप्यकेभ्यः ७ रूप्यकाणि यावत्, शिशिरकाले च प्रतिलीटरं ३ रूप्यकेभ्यः ५ रूप्यकाणि यावत् वर्धिता भविष्यति।

मुख्यमन्त्री नायबसिंह-सैनी-महोदयः अवदत् यत् राज्य-सर्वकारः कृषकाणां महिलानां च आयवृद्धये, क्षीर-उद्योगस्य सुदृढीकरणाय तथा सहकारिता-आन्दोलनस्य नवोर्जाप्रदानाय निरन्तरं कार्यं करोति। तेन विश्वासः व्यक्तीकृतः यत् एते निर्णयाः ग्रामीण-अर्थव्यवस्थायै नूतनां दृढतां प्रदास्यन्ति तथा हरियाणा-राज्यं क्षीर-विकास-क्षेत्रे अग्रणी-राज्यानां श्रेण्यां प्रतिष्ठापयिष्यन्ति।

Hindusthan Samachar / Divya Ranjan