Enter your Email Address to subscribe to our newsletters

भोपालम्, 28 जुलाईमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः प्रदेशवासिभ्यः विश्वप्रकृतिसंरक्षणदिवसस्य शुभकामनाः प्रदत्तवान्।
मुख्यमन्त्री डा यादवः मङ्गलवासरे सामाजिकमाध्यमे एक्स इत्यत्र प्रदेशवासिनः अस्मिन् अवसरे पर्यावरणसंरक्षणस्य प्राकृतिकसंसाधनानां संवर्धनस्य च सङ्कल्पं कर्तुम् आहूतवान्। मुख्यमन्त्री डा यादवः स्वसन्देशे उक्तवान् यत् प्रकृतेः संरक्षणम् आगामिसन्ततेः सुरक्षितस्य स्वस्थस्य समृद्धस्य च भविष्यस्य आधारः अस्ति।
उल्लेखनीयम् अस्ति यत् विश्वप्रकृतिसंरक्षणदिवसः प्रतिवर्षं जुलैमासस्य अष्टाविंशतितमे दिने आचर्यते। अस्य मुख्योद्देश्यम् प्राकृतिकसंसाधनानां संरक्षणम् जैवविविधतायाः रक्षणम् पर्यावरणस्य विषये जनानां जागरूकतायाः वर्धनं च अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani